रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 392, कुल 735 में से
संदर्भ में पढ़ेंदशमः सर्गः । ३३३
पुरा किल त्रिपुरारिप्रीणनाय स्वशिरांसि छिन्दता दशकन्धरेण यद्दशमं शिरोऽवशेषितं तन्मच्चक्रार्थमित्याह— स्वासिधारापरिहृतः कामं चक्रस्य तेन मे । स्थापितो दशमो मूर्धा लभ्यांश इव रक्षसा ॥ ४१ ॥
**अन्वयः—**स्वासिधारा परिहृतः दशमः मूर्धा मे चक्रस्य कामं लभ्यांश इव तेन रक्षसा स्थापितः ।
स्वेति । स्वासिधारया स्वखड्गधारया परिहृतः अच्छिन्न इत्यर्थः । दशमो-मूर्धा मे मम चक्रस्य कामं पर्याप्तं लभ्यांशः प्राप्तव्यभाग इव तेन रक्षसा स्थापितः । तत्सर्वथा तमहं हनिष्यामीत्यर्थः ।
**भाषार्थ—**भगवान् शङ्कर को प्रसन्न करने के लिए रावण ने पहले यज्ञों में तलवार से अपने ९ शिरों को काटकर हवन कर दिया है, अब मालूम पड़ता है कि उसने अपना दशवाँ शिर मेरे चक्र से कटने के लिए ही रख छोड़ा है । अर्थात् अब मैं उसको अवश्य मारूँगा ॥ ४१ ॥
तर्हि किं प्रागुपेक्षितमत आह— स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः । अत्यारूढं रिपोः सोढं चन्दनेनेव भोगिनः ॥ ४२ ॥
**अन्वयः—**तु मया स्रष्टुः वरातिसर्गात् तस्य दुरात्मनः रिपोः अत्यारूढं चन्दनेन भोगिनः ( अत्यारूढम् ) इव सोढम् ।
स्रष्टुरिति । किन्तु स्रष्टुर्ब्रह्मणो वरातिसर्गाद्वरदानाद्धेतोः मया तस्य दुरात्मनो रिपोः रावणस्यात्यारूढमत्यारोहणम् अतिवृद्धिरित्यर्थः । नपुंसके भावे क्तः। भगिनः सर्पस्यात्यारूढं चन्दनेनेव सोढुम् । चन्दनद्रुमस्यापि तया सहनं स्रष्टुनियतेरिति द्रष्टव्यम् ।
**भाषार्थ—**जिस प्रकार चन्दनवृक्ष अपने ऊपर चढ़ते हुए सर्प को सह लेता है उसी प्रकार ब्रह्माजी के वरदान देने के कारण मैंने भी उस दुष्ट रावण की वृद्धि को सहन किया है ॥ ४२ ॥
सम्प्रति वरस्वरूपमाह— धातारं तपसा प्रीतं ययाचे स हि राक्षसः । दैवात्सर्गादवध्यत्वं मर्त्येष्वास्थापराङ्मुखः ॥ ४३ ॥
**अन्वयः—**हि सः राक्षसः तपसा प्रीतं धातारं मर्त्येषु आस्थापराङ्मुखः ( सन् ) दैवात् सर्गात् अवध्यत्वं ययाचे ।
धातारमिति । स राक्षसस्तपसा प्रीतं सन्तुष्टं धातारं ब्रह्माणं मर्त्येषु विषय