भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 405, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 405
३४६रघुवंशमहाकाव्ये

दशाननेति । तत्क्षणं तस्मिन्क्षणे रामोत्पत्तिसमये राक्षसश्रियोऽश्रुबिन्दवो दशाननकिरीटेभ्यो मणीनां व्याजेन मिषेण पृथिव्यां पर्यस्ताः पतिताः । रामोदये सति तद्वधस्य रावणस्य किरीटमणिभ्रंशलक्षणं दुर्निमित्तभूदित्यर्थः ।

भाषार्थ—उसी समय रावण के मुकुट से कुछ मणि पृथ्वी पर गिर पड़े, वे ऐसे मालूम पड़े, मानों राक्षसों की लक्ष्मी के आंसू ही बह रहे हों ॥ ७५ ॥

पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः ।
आरम्भं प्रथमं चक्रुर्देवदुन्दुभयो दिवि ॥ ७६ ॥

अन्वयः—पुत्रिणः तस्य पुत्रजन्मप्रवेश्यानां तूर्याणाम् आरम्भं प्रथमं दिवि देवदुन्दुभयः चक्रुः ।

पुत्रेति । पुत्रिणो जातपुत्रस्य तस्य दशरथस्य पुत्रजन्मनि प्रवेश्यानां प्रवेशयितव्यानाम् । वादनीयानामित्यर्थः । तूर्याणां वाद्यानामारम्भमुपक्रमं प्रथमं दिवि देवदुन्दुभयश्चक्रुः । साक्षात्पितुर्दशरथादपि देवा अधिकं प्रहृष्टा इत्यर्थः ।

भाषार्थ—पुत्रवान् उस राजा दशरथ के पुत्रजन्म से बजाने योग्य बाजाओं का आरम्भ पहले स्वर्ग में देवताओं की दुन्दुभियों ने किया अर्थात् राजा दशरथ से अधिक प्रसन्नता देवताओं को हुई ॥ ७६ ॥

सन्तानकमयी वृष्टिर्भवने चास्य पेतुषी ।
सन्मङ्गलोपचाराणां सैवादिरचनाऽभवत् ॥ ७७ ॥

अन्वयः—अस्य भवने सन्तानकमयी वृष्टिः च पेतुषी सा एव सन्मङ्गलोपचाराणां आदिरचना अभवत् ।

सन्तानकेति । अस्य राज्ञो भवने सन्तानकानां कल्पवृक्षकुसुमानां विकारः सन्तानकमयी वृष्टिश्च पेतुषी पपात । "क्वसुश्च" इति क्वसुप्रत्ययः । "उगितश्च" इति ङीप् । सा वृष्टिरेव सन्तः पुत्रजन्मन्यावश्यका ये मङ्गलोपचारास्तेषामादिरचना प्रथमक्रियाऽभवत् ।

भाषार्थ—राजा दशरथ के राजभवन में आकाश से कल्पवृक्ष के फूलों की जो वर्षा हुई, उसी से उनके मांगलिक कार्यों का आरम्भ हुआ ॥ ७७ ॥

कुमाराः कृतसंस्कारास्ते धात्रीस्तन्यपायिनः ।
आनन्देनाग्रजेनेव समं ववृधिरे पितुः ॥ ७८ ॥

अन्वयः—कृतसंस्काराः धात्रीस्तन्यपायिनः ते कुमाराः अग्रजेन इव पितुः आनन्देन समं ववृधिरे ।