भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 408, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 408

दशमः सर्गः ३४६

दिन प्रजाओं के मन को हरण कर लेते हैं, उसी प्रकार प्रजाओं के स्वामी उस चारों राजकुमारों ने अपने तेज और नम्र व्यवहार से प्रजाओं के मन को हर लिया ॥ ८३ ॥

स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः ।
धर्मार्थकाममोक्षाणामवतार इवाङ्गवान् ॥ ८४ ॥

अन्वयः—चतुर्धा व्यस्तः सः पृथिवीपतेः प्रसवः अङ्गवान् धर्मार्थकाममोक्षाणाम् अवतारः इव बभौ ।

स इति । स चतुर्धा । "संख्याया विधाऽर्थे धा" इत्यनेन धाप्रत्ययः । व्यस्तो विभक्तः पृथिवीपतेर्दशरथस्य प्रसवः संतानः चतुर्धाऽङ्गवान्मूर्तिमान्धर्मार्थकाममोक्षाणामवतार इव बभौ ।

भाषार्थ—चार प्रकार से विभक्त राजा दशरथ के वे चारों पुत्र ऐसे सुशोभित हो रहे थे, मानों धर्म, अर्थ, काम और मोक्ष इन चारों ने अवतार लिया हो ॥ ८४ ॥

गुणैराराधयामासुस्ते गुरुं गुरुवत्सलाः ।
तमेव चतुरन्तेशं रत्नैरिव महार्णवाः ॥ ८५ ॥

अन्वयः—गुरुवत्सलाः ते गुणैः गुरुं चतुरन्तेशं तम् एव महार्णवाः रत्नैः इव आराधयामासुः ।

गुणैरिति । गुरुवत्सलाः पितृभक्तास्ते कुमारा गुणैर्विनयादिभिर्गुरुं पितरं चतुर्णामन्तानां दिगन्तानामीशं चतुरन्तेशम् । "तद्धितार्थोत्तरपदसमाहारे च" इत्यनेनोत्तरपदसमासः । तं दशरथमेव महार्णवाश्चत्वारो रत्नैरिव । आराधयामासुरानन्दयामासुः ।

भाषार्थ—जिस प्रकार चारों समुद्रों ने अपने रत्नों से चारों दिशाओं के स्वामी दशरथ की सेवा की, उसी प्रकार उन चारों ने अपने विनय आदि गुणों से पिता दशरथ को प्रसन्न कर लिया था ॥ ८५ ॥

सुरगज इव दन्तैर्भग्नदैत्यासिधारै-
र्नय इव पणबन्धव्यक्तयोगैरुपायैः ।
हरिरिव युगदीर्घैर्दोर्भिरंशैस्तदीयैः
पतिरवनिपतीनां तैश्चकाशे चतुर्भिः ॥ ८६ ॥

अन्वयः—भग्नदैत्यासिधारैः चतुर्भिः दन्तैः सुरगज इव पणबन्धव्यक्तयोगैः चतुर्भिः उपायैः नयः इव युगदीर्घैः चतुर्भिः दोर्भिः हरिः इव तदीयैः अंशैः चतुर्भिः तैः अवनिपतीनां पतिः चकाशे ।

सुरगज इति । भग्ना दैत्यानामसिधारा यैस्तैश्चतुर्भिर्दन्तैः सुरगज ऐरावत इव ।