रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 451, कुल 735 में से
संदर्भ में पढ़ें| ३१२ | रघुवंशमहाकाव्ये |
|---|
लक्ष्मण के साथ केवल दण्डक में ही नहीं, किन्तु सज्जनों के मन में भी प्रवेश कर गये ॥ ९ ॥
राजाऽपि तद्वियोगातं: स्मृत्वा शापं स्वकर्मजम् ।
शरीरत्यागमात्रेण शुद्धिलाभममन्यत ॥ १० ॥
**अन्वयः—**तद्वियोगातं: राजापि स्वकर्मजं शापं स्मृत्वा शरीरत्यागमात्रेण शुद्धिलाभं अमन्यत ।
राजेति । तद्वियोगातं: पुत्रवियोगदुःखितः तस्य रामस्य वियोगेन आर्तः पीडितः राजाऽपि स्वकर्मणा मुनिपुत्रवधरूपेण जातः स्वकर्मजस्तं शापं पुत्रशोकजं मरणात्मकं स्मृत्वा शरीरत्यागमात्रेण देहत्यागेनैव शुद्धिलाभं प्रायश्चित्तममन्यत मृत इत्यर्थः ।
**भाषार्थ—**राम के वियोग से राजा दशरथ को बहुत बड़ा दुःख हुआ, उन्हें अपने कर्म से प्राप्त मुनि ( श्रवणकुमार के पिता ) का शाप स्मरण हो आया और उन्होंने समझ लिया कि अब एकमात्र शरीर त्याग से ही मेरी शुद्धि हो सकती है ॥ १० ॥
विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् ।
रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ ॥ ११ ॥
**अन्वयः—**विप्रोषितकुमारं अस्तमितेश्वरं तत् राज्यं रन्ध्रान्वेषणदक्षाणां द्विषां आमिषतां ययौ ।
विप्रोषितेति । विप्रोषिता गताः कुमारा यस्मिस्तत्तथोक्तम् । अस्तमितो मृत ईश्वरो राजा यस्य तत्तथोक्तं तद्राज्यं रन्ध्रान्वेषणदक्षाणां द्विषां शत्रूणामामिषतां भोग्यवस्तुतां ययौ । 'आमिषं भोग्यस्तुनि' इति केशवः ।
**भाषार्थ—**जिस राज्य से राजकुमार बाहर चले गये हैं और राजा का स्वर्गवास हो गया है, ऐसा वह राज्य छिन्द्रान्वेषी शत्रुओं का भोग साधन बन गया । अर्थात् अवसर पाकर शत्रुओं के आक्रमण का विषय बन गया ॥ ११ ॥
अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् ।
मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः ॥ १२ ॥
**अन्वयः—**अथानाथाः प्रकृतयः मातृबन्धुनिवासिनम् भरतं स्तम्भिताश्रुभिः मौलैः आनयामासुः ।
अथेति । अथानाथाः प्रकृतयोऽमात्याः । 'प्रकृतिः सहजे यौनावमात्ये परमात्मनि' इति विश्वः । मातृबन्धुषु निवासिनं भरतं स्तम्भिताश्रुभिः । पितृमरणगुप्त्यर्थमिति भावः । मौलैराप्तैः सचिवैरानाययानामासुरागमयाञ्चक्रुः ।