भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 454, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 454

द्वादशः सर्गः ३९५

अन्वयः— सः भ्रात्रा तथा इति उक्त्वा विसृष्टः पुरीं न अविशत् ( किन्तु ) नन्दिग्रामगतः तस्य राज्यं न्यासं इव अभुनक् ।

स इति । स भरतो भ्रात्रा रामेण तथेत्युक्त्वा विसृष्टः सन्पुरीमयोध्यां नाविशदेव । किन्तु नन्दिग्रामगतः संस्तस्य राज्यं न्यासमिव निक्षेपमिवाभुनगपालयत् । न तूपभुक्तवानित्यर्थः । अन्यथा “भुजोऽनवने” इत्यात्मनेपदप्रसङ्गात् । भुजेर्लङ् ।

भावार्थ— 'अच्छा, ऐसा ही होगा' इस प्रकार कहकर अपनी खड़ाऊं देकर रामने भरत को लौटा दिया, पर भरतजी अयोध्यापुरी में प्रवेश नहीं किये किन्तु नन्दीग्राम में रहते हुए धरोहर के समान राम के राज्य का पालन किये ॥ १८ ॥

दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।
मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत् ॥ १९ ॥

अन्वयः— ज्येष्ठे दृढभक्तिः राज्यतृष्णापराङ्मुखः भरत इति मातुः पापस्य प्रायश्चित्तम् इव अकरोत् ।

दृढेति । ज्येष्ठे दृढभक्तिः राज्यतृष्णापराङ्मुखो भरत इति पूर्वोक्तानुष्ठानेन मातुः पापस्य प्रायश्चित्तं तदपनोदकं कर्माकरोदिव इत्युत्प्रेक्षा । दृढभक्तिरित्यत्र दृढशब्दस्य ‘स्त्रियाः पुंवत् ०’ इत्यादिना पुंवद्भावो दुर्घटः 'अप्रियादिषु' इति निषेधात् भक्तिशब्दस्यस्य प्रियादिषु पाठात् । अतो दृढा भक्तिरस्येति नपुंसकपूर्वपदो बहुव्रीहिरिति गणव्याख्याने दृढभक्तिरित्येवमादिषु पूर्वपदस्य नपुंसकस्य विवक्षितत्वात्सिद्धमिति समाधेयम् । वृत्तिकारश्च—दीर्घनिवृत्तिमात्रपरो दृढभक्तिशब्दो लिङ्गविशेषस्यानुपकारत्वात्क्लीत्वमविवक्षितमेव । तस्मादक्लीलिङ्गत्वार्द्दढभक्तिशब्दस्यायं प्रयोग इत्यभिप्रायः । न्यासकारोऽप्येवम् । भोजराजस्तु—कर्मसाधनत्वात्पुंवद्भावप्रतिषेधः । दृढभक्तिरित्यादौ भावसाधनत्वात्पुवद्भावसिद्धिः पूर्वपदस्येत्याह ।

भावार्थ— इस प्रकार अपने बड़े भाई राम में दृढ भक्ति करके और राज्य की इच्छा से विमुख होकर भरतजी मानो अपनी माता के पाप का प्रायश्चित्त करने लगे ॥ १९ ॥

रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् ।
चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा ॥ २० ॥

अन्वयः— सानुजः शान्तः रामः अपि वैदेह्या सह वने वन्येन वर्तयन् वृद्धेक्ष्वाकुव्रतं युवा एव चचार ।

राम इति । सानुजः सलक्ष्मणः शान्तो रामोऽपि वैदेह्या सह वने वन्येन