रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 465, कुल 735 में से
संदर्भ में पढ़ें| ४०६ | रघुवंशमहाकाव्ये |
|---|
येषां तैः । अतिवेगत्वेन देहभेदात्प्रागिव रुधिरलेपरहितैरित्यर्थः । 'शितैस्तीक्ष्णै-
स्तैर्बाणैस्त्रयाणां खरादीनामायुर्जीवितं पीतं। रुधिरं तु पतत्रिभिः पक्षिभिः पीतम्।
भाषार्थ—वे बाण उनके शरीर को छेदकर इतने वेग से बाहर निकल गये कि उनमें रक्त भी नहीं लग सका; क्योंकि बाण तो उनकी आयु पीने के लिये गये थे उनका रक्त तो पक्षियों ने पीया ॥ ४८ ॥
तस्मिन्न्रामशरोत्कृत्ते बले महति रक्षसाम् ।
उत्थितं ददृशेऽन्यच्च कबन्धेभ्यो न किञ्चन ॥ ४९ ॥
अन्वयः—तस्मिन् रामशरोत्कृत्ते महति रक्षसां बले उत्थितं कबन्धेभ्यः अन्यत् च किञ्चित् न ददृशे ।
तस्मिन्निति । तस्मिन्न्रामशरैरुत्कृत्ते छिन्ने महति रक्षसां बल उत्थितमुत्थानक्रियाविशिष्टं प्राणिनां कबन्धेभ्यः शिरोहीनशरीरेभ्यः । 'कबन्घोऽस्त्री क्रियायुक्तमपमूर्धंकलेवरम्' इत्यमरः । अन्यच्चान्यत्किञ्चन न ददृशे । कबन्धेभ्य इत्यत्र 'अन्यारात्*' इति पञ्चमी । निःशेषं हतमित्यर्थः ।
भाषार्थ — राम ने राक्षसों की उस बड़ी सेना को अपने बाणों से इस प्रकार काट डाला कि युद्ध भूमि में राक्षसों के धड़ो छोड़कर और कुछ भी नहीं दिखाई दे रहा था ॥ ४९ ॥
सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् ।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥ ५० ॥
अन्वयः—सा सुरद्विषां वरूथिनी वाणवर्षिणं रामं योधयित्वा गृध्रच्छाये अप्रबोधाय सुष्वाप ।
सेति । सा सुरद्विषां रक्षसां वरूथिनी सेना बाणवर्षिणं रामं योधयित्वा युद्धं कारयित्वा गृध्राणां छाया गृध्रच्छायम् । "छायां बाहुल्ये" इति क्लीबत्वम् । तस्मिन्नप्रबोधायापुनर्बोधाय सुष्वाप । ममारत्यर्थः । अत्र सुरतश्रान्तकान्तासमाधिर्ध्वन्यते ।
भाषार्थ—बाण बरसाने वाले राम से लड़कर उन राक्षसों की सेना गिद्धों के पंखों की छाया में सदा के लिए सो गई अर्थात् मर गई ॥ ५० ॥
राघवास्त्राविदीर्णानां रावणं प्रति रक्षसाम् ।
तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत् ॥ ५१॥
अन्वयः—एका शूर्पणखा एव रावणं प्रति राघवास्त्रविदीर्णानां तेषां रक्षसां दुष्प्रवृत्तिहरा अभवत् ।