भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 470, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 470

द्वादशः सर्गः ४११

तस्या इति । कपिर्हनुमान् भर्तू रामस्य सम्बन्ध्यभिज्ञानं । अभिज्ञायत इत्यभिज्ञानं साधकमङ्गुलीयमूर्मिकाम् । ‘अङ्गुलीयकर्मिका’ इत्यमरः । “जिह्वामूलाङ्गुलेश्छः” इति छप्रत्ययः । तस्यै जानक्यै ददौ । किविधमङ्गुलीयम् । अनुष्णैः शीतलैस्तस्या आनन्दाश्रुबिन्दुभिः प्रत्युद्गतमिव स्थितम् । भर्तृभिज्ञानदर्शनानन्दबाष्पो जात इत्यर्थः ।

**भाषार्थ—**उनके पास जाकर हनुमान् जी ने राम की अँगूठी दे दी, जिसका स्वागत सीताजी ने आनन्द के शीतल आँसुओं से किया ॥ ६२ ॥

निर्वाप्य प्रियसन्देशैः सीतामक्षवधोद्धतः ।
स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः ॥ ६३ ॥

**अन्वयः—**सः प्रियसन्देशैः सीतां निर्वाप्य अक्षवधोद्धतः क्षणसोढारिनिग्रहः लङ्कापुरीं ददाह ।

निर्वाप्येति । स कपिः प्रियस्य रामस्य सन्देशैर्वाचिकैः सीतां निर्वाप्य सुखयित्वा । अक्षस्य रावणकुमारस्य वधेनोद्धतो दृप्तः सन्, क्षणं सोढ़ोऽरेरिन्द्रजितः कर्तुः निग्रहो बाधो ब्रह्मास्त्रबन्धरूपो येन स तथोक्तः सन्, लङ्कां पुरीं ददाह भस्मीचकार ।

**भाषार्थ—**पहले तो हनुमान् जी ने रामजी का प्रिय सन्देश सुनाकर सीता जी को ढाढस बँधाया, फिर रावण के पुत्र अक्षयकुमार को मार डाला, और कुछ देर शत्रुओं के हाथ बन्दी रहकर लंका में आग लगा कर जला दिया ॥ ६३॥

प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती ।
हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत् ॥ ६४ ॥

**अन्वयः—**कृती ( स ) स्वयं आयातं मूर्तिमत् वैदेह्या हृदयम् इव तस्याः प्रत्यभिज्ञानरत्नं च रामाय आदर्शयत् ।

प्रत्यभिज्ञेति । कृतकृत्यः कपिः स्वयमायातं मूर्तिमद्वैदेह्या हृदयमिव स्थितं तस्या एव प्रत्यभिज्ञानरत्नं च रामायादर्शयत् ।

**भाषार्थ—**कृतकृत्य उस हनुमान् जी ने सीताजी के मिलने की पहचान के लिए उनके चूड़ामणि लेकर राम के पास आकर उन्हें दिखलाया । वह मणि पाकर रामजी को वैसा ही आनन्द हुआ, मानों साक्षात्सीता का हृदय ही मूर्तिमान् बनकर अपने आप चला आया हो ॥ ६४ ॥

स पाप हृदयन्यस्तमणिस्पर्शनिमीलितः ।
अपयोधरसंसर्गा प्रियालिङ्गननिर्वृतिम् ॥ ६५ ॥