भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 473, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 473
४१४रघुवंशमहाकाव्ये

तेनोत्तीर्य पथालङ्कां रोधयामास पिङ्गलैः ।
द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः ॥ ७१ ॥

अन्वयः— ( रामः ) तेन पथा ( सागरं ) उत्तीर्य पिङ्गलैः द्वितीयं हेमप्राकारं कुर्वद्भिः इव वानरैः लङ्का रोधयामास ।

तेनेति । रामस्तेन पथा सेतुमार्गेणोत्तीर्य सागरमिति शेषः । पिङ्गलै सुवर्णवर्णै रत एव द्वितीयं हेमप्राकारं कुर्वद्भिरिव स्थितैर्वानरैर्लङ्कां रोधयामास ।

भाषार्थ— उस पुल से समुद्र पार करके पीले-पीले वानरों ने लंका को चारों ओर से घेर लिया। उनसे घिरी हुई लंका ऐसी जान पड़ती थी मानो लंका के चारों ओर सोने का दूसरा परकोटा बन गया है ॥ ७१ ॥

रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् ।
दिग्विज़ृम्भितकाकुत्स्थपौलस्त्यजयघोषणः ॥ ७२ ॥

अन्वयः— तत्र प्लवगरक्षसां भीमः दिग्विज़ृम्भितकाकुत्स्थपौलस्त्यजयघोषण रणः प्रववृते ।

रण इति । तत्र लङ्कायां प्लवगानां रक्षसां च भीमो भयङ्करो दिग्विज़ृम्भितं काकुत्स्थपौलस्त्ययो रामरावणयोर्जयघोषणं जयशब्दो यस्मिन्स तथोक्तो रणः प्रववृते प्रवृत्तः । 'अस्त्रियां समरानीकरणाः कलविग्रहौ' इत्यमरः ।

भाषार्थ— लंका में वानरों और राक्षसों का ऐसा भयंकर युद्ध होने लगा कि राम और रावण की जयकारों से दिशायें गूंज उठीं ॥ ७२ ॥

पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः ।
अतिशस्त्रनखन्यासः शैलरुग्णमतङ्गजः ॥ ७३ ॥

अन्वयः— पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः अतिशस्त्रनखन्यासः शैलरुग्णमतङ्गजः ( रण प्रववृते ) ।

पादपेति । किविधो रणः पादपैर्वृक्षैराविद्धा भग्नाः परिघा लोहबद्धकाष्ठानि यस्मिन्स तथोक्तः । 'परिघः परिघातनः' इत्यमरः । शिलाभिर्निष्पिष्टाश्चूर्णिता मुद्गरा अयोधना यस्मिन्स तथोक्तः 'द्रुघणो मुद्गरघनो' इत्यमरः । अतिशस्त्राः शस्त्राण्यतिक्रान्ता नखन्यासा यस्मिन्स तथोक्तः । शैलै रुग्णा भग्ना मतङ्गजा यस्मिन्स तथोक्तः ।

भाषार्थ— उस युद्ध में वानर वृक्षों से मार-मारकर परिघों को तोड़ देते थे, पत्थर बरसा कर राक्षसों के मुद्गरों को चूर-चूर कर देते थे, अपने नखों से ऐसे