भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 476, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 476

द्वादशः सर्गः
४१७

स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् ।
मेघस्येव शरत्कालो न किञ्चित्पर्यशेषयत् ॥ ७९ ॥

अन्वयः— सः शरत्कालः मेघस्य इव मेघनादस्य नादं इन्द्रायुधप्रभं धनुः च किञ्चित् अपि न पर्यशेषयत् ।

स इति । स लक्ष्मणः शरत्कालो मेघस्येव मेघनादस्येन्द्रजितो नादं सिंहनादम् । अन्यत्र गर्जितं च । इन्द्रायुधप्रभं शक्रधनुःप्रभं धनुश्च किञ्चिदल्पमपि न पर्यशेषयन्नावशेषितवान् । तमवधीदित्यर्थः ।

भाषार्थ— जिस प्रकार शरद् ऋतु वर्षा कालीन मेघ के गर्जन और इन्द्रधनुष को नष्ट कर देता है उसी प्रकार लक्ष्मण ने मेघनाद के गर्जन और इन्द्रधनुष के समान प्रभाववाले धनुष को नष्ट कर डाला । अर्थात् लक्ष्मण ने मेघनाद को मार डाला ॥ ७९ ॥

कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः ।
रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥ ८० ॥

अन्वयः— कपीन्द्रेण स्वसुः तुल्यावस्थः कृतः कुम्भकर्णः टङ्कच्छिन्नमनःशिलः शृङ्गी इव रामं रुरोध ।

कुम्भकर्णं इति । कपीन्द्रेण सुग्रीवेण स्वसुः सूर्पणखायास्तुल्यावस्थो नासाकर्णच्छेदेन सदृशः कृतः । कुम्भकर्णष्टङ्केन शिलाभेदकशस्त्रेण छिन्न मनःशिला रक्तवर्णं धातुविशेषो यस्य स तथोक्तः । 'टङ्कः पाषाणदारणः' इति 'धातुर्मनःशिलाद्यद्रेः' इति शृङ्गी शिखरीव रामं रुरोध ।

भाषार्थ— उधर वानरराज सुग्रीव ने कुम्भकर्ण की नाक काटकर शूर्पणखा के समान बना दिया था वह राम का मार्ग रोककर वैसे ही सामने खड़ा हो गया जैसे टांगी से कटी मैनसिल की चट्टान आ गिरी हो ॥ ८० ॥

अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् ।
रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः ॥ ८१ ॥

अन्वयः— प्रियस्वप्नः भवान् वृथा भ्रात्रा अकाले बोधितः इति इव असौ रामेषुभिः दीर्घनिद्रां प्रवेशितः ।

अकाल इति । प्रियस्वप्न इष्टनिद्रोऽनुजो भवान्वृथा भ्रात्रा रावणेनाकाले बोधित इतीवासौ कुम्भकर्णो रामेषुभी रामबाणैर्दीर्घनिद्रां मरणं प्रवेशितो गमितः । यथा लोकेष्विष्टवस्तुविनाशदुःखितस्य ततोऽपि भूयिष्ठमुपपाद्यते तद्वदिति भावः ।

भावार्थ— राम के बाणों से घायल होकर कुम्भकर्ण गिरकर मर गया, मानो
२७ र० सम्पू०