रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 480, कुल 735 में से
संदर्भ में पढ़ेंद्वादशः सर्गः ४२१
को अंगुलियों पर उठा लिया था उसे देखकर राम ने समझा कि यह कम पराक्रमी नहीं है ॥ ८९ ॥
तस्य स्फुरति पौलस्त्यः सीतासङ्गमशंसिनि ।
निचखानाधिकक्रोधः शरं सव्येतरे भुजे ॥ ९० ॥
अन्वयः—अधिकक्रोधः पौलस्त्यः स्फुरति सीतासंगमशंसिनि सव्येतरे भुजे शरं निचखान ।
तस्येति । अधिकक्रोधः पौलस्त्यः स्फुरति स्पन्दमानेऽत एव सीतासंगमशंसिनि सीताया सङ्गमं शंसतीति तस्मिन् । तस्य रामस्य सव्य इतरो यस्मात्सव्येतरे दक्षिणे । “न बहुव्रीहौ” इतीतरशब्दस्य सर्वनामसंज्ञाप्रतिषेधः । भुजे शरं निचखान निखातवान् ।
भाषार्थ—अत्यन्त क्रुद्ध होकर रावण ने राम की उस दाहिनी भुजा में बाण मारा जो फड़कती हुई शुभ सूचना दे रही थी कि अब सीता के प्राप्त होने में देर नहीं है ॥ ९० ॥
रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः ।
विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् ॥ ९१ ॥
अन्वयः—रामास्तः आशुगः रावणस्य अपि हृदयं भित्वा उरगेभ्यः प्रियं आख्यातुम् इव भुवं विवेश ।
रावणस्येति । रामेणास्तः क्षिप्त आशुगो बाणः विश्रवसोऽपत्यं पुमान्रावणः विश्रवःशब्दादपत्येऽर्थेऽण्प्रत्यये सति । ‘विश्रवसो विश्रवणरवणौ’ इति रवणादेशः । तस्य रावणस्यापि हृदयं वक्षो भित्त्वा विदार्य । उरगेभ्यः पातालवासिभ्यः प्रियमाख्यातुमिव भुवं विवेश ।
भाषार्थ—राम ने जो बाण छोड़ा, वह रावण की छाती को छेदकर पाताल में चला गया । वह ऐसा लगा मानो पातालवासी नागों से रावण के मरने की प्रिय सूचना देने लिए गया हो ॥ ९१ ॥
वचसैव तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतोः ।
अन्योन्यजयसंरम्भो ववृधे वादिनोरिव ॥ ९२ ॥
अन्वयः—वाक्यं वचसा अस्त्रं अस्त्रेण निघ्नतोः तयोः वादिनोः इव अन्योऽन्यजयसंरम्भः ववृधे ।
वचसेति । वाक्यं वचसैवास्त्रमस्त्रेण निघ्नतोः प्रतिकुर्वतोस्तयो रामरावणयोः वादिनोः कथकयोरिव अन्योन्यविषये जयसंरम्भो ववृधे ।