रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 501, कुल 735 में से
संदर्भ में पढ़ें| ४४२ | रघुवंशमहाकाव्ये |
|---|
त्रेतेति । अनिन्द्यकीर्तेस्तस्यागस्त्याक्रान्तविमानमार्गम् । हविर्गन्धोऽस्यास्तीति हविर्गन्धि त्रेताग्नेरग्नित्रयम् । 'अग्नित्रयमिदं त्रेता' इत्यमरः । पृषोदरादित्वादेत्वम् । त्रेताग्नेर्धूम्रामिदं घ्रात्वाऽऽघ्राय रजसो गुणाद्विमुक्तो मे ममात्मान्तःकरणं लघिमानं लघुत्वगुणं समश्नुते प्राप्नोति ।
भाषार्थ—उसी प्रशंसनीय यशवाले अगस्त्य ऋषि द्वारा गार्हपत्य, दाक्षिणात्य एवं आहवनीय अग्नियों में दी गई हवन सामग्री की गन्ध से मिला हुआ यह धुआं विमान के पास तक उठा चला आ रहा है जिसे सूंघते ही मेरी आत्मा पवित्र हो गई और मेरे अन्तःकरण से रजोगुण निकल गया । अर्थात् मैं शान्ति का अनुभव कर रहा हूँ ॥ ३७ ॥
एतन्मुनेर्मानिनि ! शातकर्णेः पञ्चाप्सरो नाम विहारवारि ।
आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम् ॥ ३८ ॥
अन्वयः—हे मानिनि ! शातकर्णेः मुनेः पञ्चाप्सरो नाम पर्यन्तवनं एतत् बिहारवारि विदूरात् मेघान्तरालक्ष्यं इन्दुबिम्बं इव आभाति ।
एतदिति । हे मानिनि ! शातकर्णेर्मुनेः संबन्धि पञ्चाप्सरो नाम पञ्चाप्सर इति प्रसिद्धम् । पञ्चाप्सरसो यस्मिन्निति विग्रहः पर्यन्तेषु वनानि यस्य तत्पर्यन्तवनमेतद्विहारवारि क्रीडासरो विदूरात् मेघानामन्तरे मध्य आलक्ष्यमीषदृदृश्यम् । 'आङीषदर्थेऽभिव्याप्तौ' इत्यमरः । इन्दुबिम्बमिव आभाति ।
भाषार्थ—हे मानिनि प्रिये ! यह आगे शातकर्णी ऋषि का पञ्चाप्सर नामक क्रीड़ा सरोवर चारों ओर काले-काले जंगलों से घिरा हुआ दूर से ऐसा दिखाई पड़ रहा है मानो बादलों के बीच में कुछ-कुछ दिखाई देने वाला चमकीला चन्द्रमा का बिम्ब हो ॥ ३८ ॥
पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धमृषिर्मघोना ।
समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटबन्धम् ॥ ३९ ॥
अन्वयः—पुरा दर्भाङ्कुरमात्रवृत्तिः मृगैः सार्द्धं सह चरन् स ऋषिः समाधिभीतेन मघोना पञ्चाप्सरो-योजनकूटबन्धं उपनीतः किल ।
पुरेति । पुरा पूर्वस्मिन्काले दर्भाङ्कुरमात्रवृत्तिस्तन्मात्राहारो मृगैः सह चरन्स ऋषिः समाधेस्तपसो भीतेन मघोनेन्द्रेण पञ्चानामप्सरसां यौवनम् । 'तद्धितार्थोत्तरपदसमाहारे च' इत्यनेनोत्तरपदसमासः । तदेव कूटबन्धं कपटयन्त्रमुपनीतः । 'उन्माथः कूटयन्त्रं स्यात्' इत्यमरः । किलेत्यैतिह्ये । मृगसाहचर्यान्मृगवदेव बद्ध इति भावः ।