भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 503, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 503

४४४ रघुवंशमहाकाव्ये

अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि। नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥ ४२ ॥

अन्वयः—जनितेन्द्र शङ्कं अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि सुराङ्गनाविभ्रमचेष्टितानि विकर्तुं न अलम् अस्ति ।

अमुमिति । जनितेन्द्रशङ्कं जनिता इन्द्रस्य शङ्का भयं येन तं । तपसेति शेषः । अमुं सुतीक्ष्णं सहासं प्रहितानीक्षणानि दृष्टयो येषु तानि व्याजेन केनचिन्मिषेण । 'पुंस्यर्थोऽर्धं समेंऽशके' इति विश्वः । अर्धमीषत्संदर्शिता मेखला काञ्ची येषु तानि सुराङ्गनानामिन्द्रप्रेषितानां विभ्रमा विलासा एव चेष्टितानि विकर्तुं स्खलयितुमलं समर्थानि न, बभूवुरिति शेषः ।

भाषार्थ—इनकी तपस्या से डरकर इन्द्र ने इनके पास भी अप्सराओं को भेजा वे मुस्कुरा-मुस्कुरा कर तिरछी निगाहें चलाती नाचती गाती हुई किसी बहाने अपनी करधनी को उतार कर दिखा देती थीं पर उनकी यह सब चटक-मटक इन्हें न लुभा सकीं ॥ ४२ ॥

एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् । सभाजने मे भुजमूर्ध्वबाहुः सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥ ४३ ॥

अन्वयः—ऊर्ध्वबाहुः एषः अक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावं सव्येतरं भुजं मे सभाजने इतः प्राध्वं प्रयुङ्क्ते ।

एष इति । ऊर्ध्वबाहुरेष सुतीक्ष्णोऽक्षमालैव वलयं यस्य तं मृगाणां कण्डूयितारं कुशा एव सूचयस्ता लुनातीति कुशसूचिलावस्तम् । "कर्मण्यण्" इत्यण् । एभिर्विशेषणैर्जयशीलत्वं भूतदया कर्मक्षमतवं च द्योत्यते । सव्यादितरं दक्षिणं भुजं मे मम सभाजने सम्माननिमित्ते । "निमित्तात्कर्मयोगे" इति सप्तमी । इतः प्राध्वं प्रकृतानुकूलबन्धं प्रयुङ्क्ते प्रेरयति । 'आनुकूल्यार्थकं प्राध्वम्' इत्यमरः । अव्ययं चैतत् ।

भाषार्थ—देखो, वे मुझे देखकर रुद्राक्ष की माला बँधी हुई, मृगों को खुजलाने वाली और कुश उखाड़ने वाली अपनी दाहिनी भुजा को उठाकर मेरा स्वागत कर रहे हैं ॥ ४३ ॥

वाचंयमत्वात्प्रणतिं ममैष कम्पेन किंचित्प्रतिगृह्य मूर्ध्नः । दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि संनिधत्ते ॥ ४४ ॥

अन्वयः—एषः वाचंयमत्वात् मम प्रणतिं किंचित् मूर्ध्नः प्रतिगृह्य विमानव्यवधानमुक्तां दृष्टिं पुनः सहस्रार्चिषि संनिधत्ते ।