रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 541, कुल 735 में से
संदर्भ में पढ़ें४८२ | रघुवंशमहाकाव्ये
न चेति । आर्या साध्वी सा सीता वृजिनादृते एनसो विनाऽपि । 'कलुषं वृजिनै-नोऽघम्' इत्यमरः । "अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते" इत्यनेन पञ्चमी । निराकरिष्णोर्निरासकस्य । "अलंकृञ्निराकृञ्०" इत्यनेनेष्णुच्प्रत्ययः । भर्तुरवर्णमपवादं न चावदन्नैवावादीत् । किन्तु स्थिरदुःखभाजमत एव दुष्कृतिन-मात्मानं पुनः पुनर्निनिन्द ।
भाषार्थ— सीता इतनी साध्वी थीं कि निरपराध त्याग करने वाले अपने पति को उन्होंने कुछ भी भला बुरा नहीं कहा किन्तु बार-बार स्थिर दुःख को भोगने वाली अपनी आत्मा की ही निन्दा की ॥ ५७ ॥
आश्वास्य रामावरजः सतीं तामाख्यातवाल्मीकिनिकेतमार्गः ।
निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि ! क्षमस्वेति बभूव नम्रः ॥ ५८ ॥
अन्वयः— रामावरजः सतीं ताम् आश्वास्य आख्यातवाल्मीकिनिकेतमार्गः निघ्नस्य मे भर्तृनिदेशरौक्ष्यं हे देवि ! क्षमस्व इति नम्रः बभूव ।
आश्वास्येति । रामावरजो लक्ष्मणः सतीं साध्वीं तामाश्वास्य आख्यान उप-दिष्टो वाल्मीकेर्निकेतस्याश्रमस्य मार्गो येन स तथोक्तः सन् । निघ्नस्य पराधीनस्य । 'अधीनो निघ्न आयत्तः' इत्यमरः । मे भर्तृनिदेशेन स्वाम्यनुज्ञया हेतुना यद्रौक्ष्यं पारुष्यं तद्धे देवि ! क्षमस्व इति नम्रः प्रणतो बभूव ।
भाषार्थ— राम के छोटे भाई लक्ष्मण ने साध्वी सीता को बहुत कुछ समझा बुझा ओर महर्षि वाल्मीकि के आश्रम का मार्ग दिखाकर नम्रतापूर्वक कहा कि हे देवि ! मैं पराधीन हूँ, इसलिए स्वामी की आज्ञा से मैंने आपके साथ जो कठोर व्यवहार किया है उसे आप क्षमा कीजिए ॥ ५८ ॥
सीता तमुत्थाप्य जगाद वाक्यं प्रीताऽस्मि ते सौम्य ! चिराय जीव ।
विडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वम् ॥ ५९ ॥
अन्वयः— सीता तम् उत्थाप्य वाक्यं जगाद हे सौम्य ! ते प्रीता अस्मि चिराय जीव, यत् विडौजसा विष्णुः इव अग्रजेन भ्रात्रा त्वम् इत्थं परवान् असि ।
सीतेति । सीता तं लक्ष्मणमुत्थाप्य वाक्यं जगाद । किमिति ? हे सौम्य साधो ! ते प्रीताऽस्मि चिराय चिरं जीव । यद्यस्मात् विडौजसेन्द्रेण विष्णुरुपेन्द्र इव अग्रजेन ज्येष्ठेन भ्रात्रा त्वमित्थं परवान्परतन्त्रोऽसि ।
भाषार्थ— सीताजी लक्ष्मण को उठाकर बोली-हे वत्स ! मैं तुम पर प्रसन्न हूँ तुम अधिक दिन तक जीवो, क्योंकि जिस प्रकार इन्द्र के छोटे भाई विष्णु अपने