रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 589, कुल 735 में से
संदर्भ में पढ़ें५३० रघुवंशमहाकाव्ये
निष्पाद्य लङ्कानाथं विभीषणं पवनतनयं हनूमन्तं चोभयं कीर्तिस्तम्भद्वयमिव दक्षिणे गिरौ चित्रकूटे चोत्तरे गिरौ हिमवति च स्थापयित्वा सर्वलोकप्रतिष्ठां सर्वलोकाश्रयभूतां स्वतनुं स्वमूर्तिमविशत् ।
भाषार्थ— इस प्रकार भगवान् विष्णु ने रावण का वध करके देवताओं का कार्य पूरा किया और उत्तर गिरि हिमालय पर हनुमान् जी को और दक्षिण पर्वत त्रिकूट पर्वत पर विभीषण को अपने दो कीर्ति स्तम्भों के रूप में स्थापित करके समस्त संसार के आश्रयभूत अपने विराट् शरीर में लीन हो गये ॥१०३॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीवनीसमाख्यया व्याख्यया समेतो महाकविकालिदासकृतौ रघुवंशे महाकाव्ये श्रीरामस्वर्गारोहणो नाम पञ्चदशः सर्गः ॥ १५ ॥
षोडशः सर्गः
वृन्दारका यस्य भवन्ति भृङ्गा मन्दाकिनी यन्मकरन्दविन्दुः ।
तवारविन्दाक्ष ! पदारविन्दं वन्दे चतुर्वर्गचतुष्पदं तत् ॥
अथेतेरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च ।
चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुसारि ॥ १ ॥
अन्वयः— अथ इतरे सप्त रघुप्रवीराः पुरोजन्मतया गुणैः च ज्येष्ठं कुशं रत्नविशेषभाजं चक्रुः, हि सौभ्रात्रम् एषां कुलानुसारि ( आसीत् ) ।
अथेति । अथ रामनिर्वाणानन्तरमितरे लवादयः सप्त रघुप्रवीराः पुरः पूर्वं जन्म यस्य तस्य भावस्तत्ता तया गुणैश्च ज्येष्ठं कुशं रत्नविशेषभाजं तत्तच्छ्रेष्ठवस्तुभागिनं चक्रुः । तदुक्तम्—'जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते' इति । तथा हि सुभ्रातॄणां भावः सौभ्रात्रम् । "हायनान्तयुवादिभ्योऽण्" इत्यनेन युवादि-त्वाद्णप्रत्ययः । एषां कुशलवादीनां कुलानुसारि वंशानुगतं हि ।
भाषार्थ— इसके बाद रघुवंशियों में श्रेष्ठ दूसरे लव, तक्ष, पुष्कल, सुवाहु, सुकृत, अङ्गद और चित्रकेतु इन सात वीरों ने अपने सर्वश्रेष्ठ भाई कुश को अपना प्रधान मानकर उत्तमोत्तम रत्न दिये, क्योंकि भ्रातृप्रेम तो उनके कुल का क्रमागत धर्म ही था ॥ १ ॥