भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 593, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 593
५३४रघुवंशमहाकाव्ये

भाषार्थ—उस स्त्री ने उत्तर दिया—हे राजन् ! जब भगवान् राम वैकुण्ठ जाने लगे तब जिन निर्दोष अयोध्यावासियों को वे साथ-साथ लेते गये। उसी अयोध्या पुरी की मैं इस समय अनाथ अधिष्ठात्री देवी हूँ ॥ ९ ॥

वस्वौकसारामभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या ।
समग्रशक्तौ त्वयि सूर्यवंशये सति प्रपन्ना करुणामवस्थाम् ॥ १० ॥

अन्वयः—सा अहं सौराज्यबद्धोत्सवया विभूत्या वस्वौकसाराम् अभिभूय समग्रशक्तौ त्वयि सूर्यवंशये सति करुणाम् अवस्थां प्रपन्ना ।

वस्वौकसारामिति । साऽहं सौराज्येन राजन्वत्तया हेतुना बद्धोत्सवया विभूत्या वस्वौकसाराऽलकापुरी । ‘अलकापुरी वस्वौकसारा स्यात्’ इति कोशः । अथवा मानसोत्तरशैलशिखरवर्तिनी शक्रनगरी । ‘वस्वौकसारा शक्रस्य’ इति विष्णुपुराणात् । तामभिभूय तिरस्कृत्य समग्रशक्तौ त्वयि सूर्यवंशे सति करुणामवस्थां दीनां दशां प्रपन्ना प्राप्ता ।

भाषार्थ—पहले अच्छे राजा होने के कारण मैं इतनी ऐश्वर्यशालिनी हो गई थी कि मेरे सामने कुबेर की अलकापुरी भी फीकी लगती थी । आजकल आप जैसे प्रतापी राजा के रहते हुए भी मेरी बहुत बुरी दशा हो गई है ॥ १० ॥

विशीर्णतल्पाट्टशतो निवेशः पर्यस्तशालः प्रभुणा विना मे ।
विडम्बयत्यस्तनिमग्नसूर्यं दिनान्तमुग्रानिलभिन्नमेघम् ॥ ११ ॥

अन्वयः—विशीर्णतल्पाट्टशतः पर्यस्तशालः प्रभुणा बिना मे निवेशः अस्तनिमग्नसूर्यम् उग्रानिलभिन्नमेघं दिनान्तं विडम्बयति ।

विशीर्णेति । तल्पान्यट्टालिकाः । ‘तल्पं शय्याट्टदारेषु’ इत्यमरः । अट्टानि गृहभेदाः । ‘अट्टं भक्ते च शुष्के च क्षौमेत्यर्थे गृहान्तरे’ इति विश्वः । विशीर्णानि तल्पानामट्टानां च शतानि यस्य स तथोक्तः । ‘विशीर्णकल्पाट्टशतो निवेशः’ इति च पाठः । अट्टाः क्षौमा ‘स्यादट्टः क्षौममस्त्रियाम्’ इत्यमरः । ईषदसमाप्तं विशीर्णानि विशीर्णकल्पान्यट्टशतान्यस्य स तथोक्तः । पर्यस्तशालः स्रस्तप्राकारः । ‘प्राकारो वरणः शालः’ इत्यमरः । प्रभुणा स्वामिना विनैवंभूतो मे निवेशो निवेशनम् । अस्तनिमग्नसूर्यम्अस्ताद्रिलीनार्कमुग्रानिलेन भिन्नमेघं दिनान्तं बिडम्बयत्यनुकरोति ।

भाषार्थ—स्वामी राम के न रहने के कारण सैकड़ों अट्टालिकाओंके भग्न हो जाने से मेरी निवासभूमि अयोध्या नगरी ऐसी उदास लगती है जैसे सूर्यास्त के समय की वह सन्ध्या जिसमें वायु के वेग से बादल इधर उधर छितराये हुए दिखाई देते हों ॥ ११ ॥