रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 603, कुल 735 में से
संदर्भ में पढ़ें| ५४४ | रघुवंशमहाकाव्ये |
|---|
इतीति। इति कैश्चिदहोभिरध्वनोऽन्तेऽवसाने कुशः सरय्वाः कूलं समासाद्यवितताध्वराणां विस्तृतमखानां रघूणां वेदिः प्रतिष्ठास्पदं येषां तान् यूपाञ्छतशोऽपश्यत्।
**भाषार्थ—**इस प्रकार कुछ दिन में मार्ग बिताकर कुश सरयू के किनारे पहुँचे वहाँ उन्हें बड़े-बड़े यज्ञ करने वाले रघुवंशी राजाओं के गाड़े हुए सैकड़ों यज्ञ के खंभे दिखाई दिये ॥ ३५ ॥
आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतराङ्गान् ।
तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः ॥ ३६ ॥
**अन्वयः—**कुलराजधान्या उपवनान्तवायुः कुसुमद्रुमाणां शाखाः आधूय शीतान् सरयूतरांगान् स्पृष्ट्वा क्लान्तसैन्यं तं प्रत्युज्जगाम ।
आधूयेति । कुलराजधान्या उपवनान्तवायुः कुसुमद्रुमाणां शाखा आधूयेषद्धूत्वा सुरभिर्मन्दश्चेत्यर्थः । शीतान्सरयूतराङ्गांश्च स्पृष्ट्वा अनेन शैत्योक्तिः । क्लान्तसैन्यं तं कुशं प्रत्युज्जगाम ।
**भाषार्थ—**वंशपरम्परागत राजधानी अयोध्या के उपवन की वायु ने फूले हुए वृक्षों की डालियों को थोड़ा हिलाकर और सरयू के शीतल तरंगों का स्पर्श करके सेना के साथ थके हुए कुश का स्वागत किया अर्थात् शीतल मन्द सुगन्ध वायु ने क्लान्त कुश के श्रम को दूर किया ॥ ३६ ॥
अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौरसखः स राजा ।
कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि ॥ ३७ ॥
**अन्वयः—**अथ रिपुमग्नशल्यः पौरसखः कुलध्वजः बली स राजा चलध्वजानि तानि बलानि तस्याः पुरः उपशल्ये निवेशयामास ।
अथेति । अथ रिपुषु मग्नं शल्यं शङ्कुः शरो वा यस्य सः । 'शल्यं शङ्कौ शरे वशे' इति विश्वः । पौराणां सखा पौरसखः । “राजाहः सखिभ्यष्टच्” इत्यनेन टच्प्रत्ययः । कुलस्य ध्वजश्चिह्नभूतो बली स राजा चलाश्चलन्तो वा ध्वजा येषां तानि तानि बलानि सैन्यानि तस्याः पुरः पुर्या उपशल्ये 'ग्रामान्तं उपशल्यं स्यात्' इत्यमरः । निवेशयामास ।
**भाषार्थ—**शत्रुसंहारक प्रजाहितैषी कुलको उन्नतिशील बनानेवाले और बलिष्ठ राजा कुश ने फहराती हुई ध्वजावाली अपनी सेना को नगर के आस-पास के स्थानों में ठहरा दिया ॥ ३७ ॥
तां शिल्पिसङ्घाः प्रभुणा नियुक्तास्तथागतां सम्भृतसाधनत्वात् ।
पुरं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितामिवोर्वीम् ॥ ३८ ॥