रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 610, कुल 735 में से
संदर्भ में पढ़ेंषोडशः सर्गः | ५५१
करने वाले राजा कुश, दूसरे शीतल किरणों से गर्मी का ताप दूर करने वाले चन्द्रमा ॥ ५३ ॥
अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः ।
विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥ ५४ ॥
अन्वयः—अथ ऊर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे ग्रीष्मसुखे सरय्वाः अम्भसि तस्य वनितासखस्य विहर्तुम् इच्छा बभूव ।
अथेति । अथोर्मिषु लोलाः सतृष्णा उन्मदा राजहंसा यस्मिंस्तस्मिन् । 'लोलश्चलसतृष्णयोः' इत्यमरः । रोधोलतापुष्पाणां । 'वह प्रापणे' पचाद्यच् । ग्रीष्मेषु सुखे सुखकरे सरय्वा अम्भसि पयसि तस्य कुशस्य वनितासखस्य वनिताभिः सहेत्यर्थः । विहर्तुमिच्छा बभूव ।
भाषार्थ—इसके बाद एक दिन राजा कुश की इच्छा हुई कि लहरों के लहराने से चञ्चल एवं मतवाले बने हुए हंस वाले, तटवर्ती लताओं के पुष्पों को बहाने वाले, ग्रीष्म काल से सुखप्रद सरयू के जल में अपनी रानियों के साथ विहार करें ॥ ५४ ॥
स तीरभूमौ विहितोपकार्यामानायिभिस्तामपकृष्टनक्राम् ।
विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥ ५५ ॥
अन्वयः—चक्रधरप्रभावः स तीरभूमौ विहितोपकार्याम् आनायिभिः अपकृष्टनक्रां तां श्रीमहिमानुरूपां विगाहितुं प्रचक्रमे ।
स इति । चक्रधरप्रभावो विष्णुतेजाः स कुशस्तीरभूमौ विहितोपकार्या यस्यास्ताम् । आनायो जालमेषामस्तीत्यानायिनो जालिकाः । “जालमानायः” इति निपातः । ‘आनायः पुंसि जालं स्यात्’ इत्यमरः । तैरपकृष्टनक्रामपनीतग्राहां तां सरयू श्रीमहिम्नोः सम्पतप्रभावयोरनुरूपं योग्यं यथा तथा विगाहितुं प्रचक्रमे । अत्र कामन्दकः—“परितापिषु वासरेषु पश्यंस्तटलेखास्तितमाप्तसैन्यचक्रम् । सुविशोधितनक्रमीनजालं व्यवगाहेत जलं सुहृत्समेतः” । इति ।
भाषार्थ—यह निश्चय करके भगवान् विष्णु के समान प्रभावशाली कुश सरयू के जल में स्नान करने चले । सरयू के तट पर सामियाना-तम्बू आदि तान दिये गये और मल्लाहों ने जाल डालकर ग्राह आदि जल-जन्तुओं को उसमें से निकाल डाला ॥ ५५ ॥
सा तीरसोपानपथावतारादन्योऽन्यकेयूरविघट्टिनीभिः ।
सनूपुरक्षोभपदामिरासीदुद्विग्नहंसा सरिदङ्गनाभिः ॥ ५६ ॥