भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 614, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 614

षोडशः सर्गः ५५५

अन्वयः— उत्कलापैः प्रस्निग्धकेकैः तीरस्थलीबर्हिभिः अभिनन्द्यमानं रक्तं गीतानुगम् आसां वारिमृदङ्गवाद्यं श्रोत्रेषु सन्मूर्च्छन्ति ।

तीरेति । उत्कलापैरुरुच्चबर्हैः प्रस्निग्धा मधुराः केका येषां तैस्तीरस्थलीषु स्थितैर्बर्हिभिर्मयूरैरभिनन्द्यमानं रक्तं श्राव्यं गीतानुगं गीतानुसार्यासां स्त्रीणां सम्बन्धि वार्येव मृदङ्गस्तस्य वाद्यं वाद्यध्वनिः श्रोत्रेषु सम्मूर्छति व्याप्नोति ।

भाषार्थ— ये गा-गा कर जो मृदंग बजाने के समान थपकी दे-देकर जल ठोक रही है उसे सुनकर तट पर बैठे हुए मोर अपनी पूँछें उठा कर और बोलकर इनका अभिनन्दन कर रहे हैं ॥ ६४ ॥


संदष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः ।
अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥ ६५ ॥

अन्वयः— संदष्टवस्त्रेषु अबलानितम्बेषु इन्दुप्रकाशान्तरितोडुतुल्याः अमी जलापूरितसूत्रमार्गा रशनाकलापाः मौनं भजन्ते ।

संदष्टेति । संदष्टवस्त्रेषु जलसेकात्संश्लिष्टांशुकेष्वबलानां नितम्बेष्वधिकरणेष्विन्दुप्रकाशेन ज्योत्स्नायान्तरितान्यावृतानि यान्युडूनि नक्षत्राणि तत्तुल्याः । मुक्तामयत्वादिति भावः । जलापूरितसूत्रमार्गाः । निश्चला इत्यर्थः । रशना एव कलापा भूषाः । ‘कलापो भूषणे बर्हे’ इत्यमरः । मौनं निःशब्दतामित्यर्थः ।

भाषार्थ— इन रानियों ने अपने नितम्बों पर सफेद वस्त्र लपेट लिया है जिसके नीचे करधनी के घुंघरू ऐसे दिखाई देते हैं जैसे चाँदनी से ढके हुए तारे हों । करधनी के डोरे में जल भर जाने से इन स्त्रियों के इधर-उधर दौड़ने पर भी ये बज नहीं रहे हैं ॥ ६५ ॥


एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः ।
वक्रेतराग्रैरलकैस्तरुण्योऽचूर्णारुणान्वारिलवान्वमन्ति ॥ ६६ ॥

अन्वयः— दर्पात् करोत्पीडितवारिधाराः सखीभिः वदनेषु सिक्ताः एताः तरुण्यः वक्रेतराग्रैः अलकैः चूर्णारुणान् वारिलवान् वमन्ति ।

एता इति । दर्पात्सखीजनं प्रति करैरुत्पीडिता उत्सारिता वारिधारा याभिस्ताः स्वयमपि पुनस्तथैव सखीभिर्वदनेषु सिक्ता एतास्तरुण्यो वक्रेतराग्रैर्जलसेकादृजुग्रैरलकैः करणैश्चूर्णैः कुङ्कुमादिभिररुणान्वारिलवानुदकबिन्दून्वमन्ति वर्षन्ति ।

भाषार्थ— जब इनकी सखियाँ इनके मुँह पर पानी डालती हैं और ये अहंकार से अपनी सखियों पर पानी उछालती हैं तब इनके सीधे लटके बालों से कुंकुम मिली हुई लाल रंग की बूँदें चूने लगती हैं ॥ ६६ ॥