रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 616, कुल 735 में से
संदर्भ में पढ़ेंषोडशः सर्गः ५५७
योगात्पूर्वमेव केवला अपीत्यर्थः । मुक्ता मणयो नयनाभिरामाः उन्मयूखमिन्द्रनीलं प्राप्य किमुत अभिरामा इति । किमु वक्तव्यमित्यर्थः ।
भाषार्थ—उसके बाद उस कान्तिमान् राजा कुश के साथ जलक्रीडा करती हुई वे रानियां पहले से भी अधिक सुन्दर लगने लगीं क्योंकि मोती तो यों ही सुन्दर हैं और फिर यदि वह इन्द्र नील मणि से गूँथ दिया जाय तब तो कहना ही क्या है ॥ ६९ ॥
वर्णोदकैः काञ्चनशृङ्गमुक्तैस्तमायताक्ष्यः प्रणयादसिञ्चन् ।
तथागतः सोऽतितरां बभासे सधातुनिष्यन्द इवाद्रिराजः ॥७०॥
अन्वयः—तम् आयताक्ष्यः काञ्चनशृङ्गमुक्तैः वर्णोदकैः प्रणयात् असिञ्चन् तथागतः सः सधातुनिष्यन्दः अद्रिराज इव अतितरां बभाषे ।
वर्णोदकैरिति । तं कुशमायताक्ष्यः काञ्चनस्य शृङ्गैर्मुक्तानि तैर्वर्णोदकैः कुङ्कुमादिवर्णद्रव्यसहितोदकैः प्रणयात्स्नेहादसिञ्चन् । तथागतस्तथा स्थितः वर्णोदकसिक्त इत्यर्थः । स कुशः सधातुनिष्यन्दो गैरिकद्रव्ययुक्तोऽद्रिराज इव अतितरां बभासेऽत्यर्थं चकासे ।
भाषार्थ—विशाल नेत्रवाली वे सुन्दरियां सोने की पिचकारियों से कुंकुमादि रङ्ग छोड़कर कुशको भिगोने लगीं । उस समय वे ऐसे सुन्दर लगते थे जैसे पर्वतराज हिमालय पर से गेरु आदि धातु का झरना गिर रहा हो ॥ ७० ॥
तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् ।
आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः ॥७१॥
अन्वयः—अवरोधप्रमदासखेन तां सरिद्वरां विगाहमानेन तेन आकाशगङ्गा-रतिः अप्सरोभिः वृतः मरुत्वान् अनुयातलीलः ( अभूत् ) ।
तेनेति । अवरोधप्रमदासखेनान्तःपुरसुन्दरीसहचरेण तां सरिद्वरां सरयूं विगाहमानेन तेन कुशेनाराशगङ्गायां रतिः क्रीडा यस्य सोऽप्सरोभिर्वृत आवृतो मरुत्वानिन्द्रोऽनुयातलीलोऽनुकृतश्रीः अभूदिति शेषः । इन्द्रमनुकृतवानित्यर्थः ।
भाषार्थ—उन अन्तःपुर की रानियों के साथ श्रेष्ठ नदी सरयू में जलक्रीडा करते समय कुश ऐसे लगते थे मानो देवराज इन्द्र अप्सराओं के साथ आकाश गङ्गा में जलक्रीडा कर रहे हों ॥ ७१ ॥
यत्कुम्भयोनेरभिगम्य रामः कुशाय राज्येन समं दिदेश ।
तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज ॥७२॥