भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 646, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 646

सप्तदशः सर्गः ५८७

कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः । अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते ॥ ६० ॥

अन्वयः—कोशेन आश्रयणीयत्वं (भवति) इति तस्य अर्थसंग्रहः, हि अम्बु- गर्भः जीमूतः चातकैः अभिनन्द्यते ।

कोशेनेति । कोशेनार्थचयेनाश्रयणीयत्वं भजनीयत्वम् । भवतीति शेषः । इति हेतोस्तस्य राज्ञः कर्तुः अर्थसंग्रहः । न तु लोभादित्यर्थः । तथाहि अम्बुगर्भो यस्य सोऽम्बुगर्भो जीवनस्य जलस्य मूतः पुटबन्धो जीमूतो मेघः । 'मूङ् बन्धने' पृषोद- रादित्वात्साधुः । चातकैरभिनन्द्यते । सेव्यते । अत्र कामन्दकः—'धर्महेतोस्तथार्थाय भृत्यानां रक्षणाय च । आपदर्थं च संरक्ष्यः कोशो धर्मवता सदा' ॥ इति ।

भाषार्थ—राजा अतिथि ने इसलिए धन इकट्ठा किया कि एक तो इससे आदर होता है और दूसरे दीन लोग आकर आश्रय लेते हैं क्योंकि चातक उन्हीं बादलों का स्वागत करते हैं जिनमें पानी भरा रहता है ॥ ६० ॥

परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु । आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्निपून् ॥ ६१ ॥

अन्वयः—स परकर्मापहः (सन्) स्वेषु कर्मसु उद्यतः अभूत्, रिपून् रन्ध्रेषु प्रहरन् आत्मनः रन्ध्रं आवृणोत् ।

परकर्मेति । स राजा परेषां कर्माणि सेतुवार्तादीन्यपहन्तीति परकर्मापहः सन् । ‘‘अन्येष्वपि दृश्यते’’ इत्यपिशब्दसामर्थ्याद्विन्तेर्डप्रत्ययः । किं च रिपून्तरन्ध्रेषु प्रहरन्नात्मनो रन्ध्रं व्यसनादिकमावृणोत्संवृतवान् । अत्र मनुः—‘नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु । गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ।।' इति ।

भाषार्थ—शत्रुओं का उद्योग नष्ट करके वे राजा अतिथि अपने उद्योग में लग गये । उन्होंने शत्रुओं के दोषों से लाभ उठाकर उन्हें नष्ट कर दिया और अपने दोषों को दूर कर दिया ॥ ६१ ॥

पित्रा सम्बर्धितो नित्यं कृतास्त्रः साम्परायिकः । तस्य दण्डवतो दण्डःस्वदेहात्न व्यशिष्यत ॥ ६२ ॥

अन्वयः—दण्डवतः तस्य पित्रा नित्यं सम्बर्द्धितः कृतास्त्रः साम्परायिकः दण्डः स्वदेहात् न व्यशिष्यत ।

पित्रेति । दण्डो दमः सैन्यं वा तद्वतो दण्डतो दण्डसम्पन्नस्य तस्य राज्ञः पित्रा कुशेन नित्यं सम्बर्धितः कृतास्त्रः शिक्षितास्त्रः सम्परायो युद्धम् । 'युद्धायत्योः सम्प-