रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 662, कुल 735 में से
संदर्भ में पढ़ेंअष्टादशः सर्गः ६०३
ततः परं वज्रधरप्रभावस्तदात्मजः संयति वज्रघोषः ।
बभूव वज्राकरभूषणायाः पतिः पृथिव्याः किल वज्रनाभः ॥ २१ ॥
**अन्वयः—**ततः परं वज्रधरप्रभावः संयति वज्रघोषः वज्रनाभः तदात्मजः वज्राकरभूषणायाः पृथिव्याः पतिः बभूव किल ।
तत इति । ततः परं वज्रधरप्रभाव इन्द्रतेजाः संयति सङ्ग्रामे वज्रघोषोऽशनितुल्यध्वनिर्वज्रनाभो नाम तस्योन्नाभस्यात्मजो वज्राणां हीरकाणामाकराः खनय एव भूषणानि यस्यास्तस्याः पृथिव्याः पतिर्बभूव किल खलु । 'वज्रं त्वस्त्री कुलिशशस्त्रयोः । मणिवेधे रत्नभेदेऽप्यशनावासनान्तरे' ॥ इति केशवः ।
**भाषार्थ—**उनके बाद उनके पुत्र वज्रनाभ हीरे की खानों का भूषण पहननेवाली पृथिवी के स्वामी हुए । वे इन्द्र के समान प्रभावशाली थे और युद्ध में वज्र समान गरजते थे ॥ २१ ॥
तस्मिन्गते द्यां सुकृतोपलब्धां तत्सम्भवं शङ्खणमर्णवान्ता ।
उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैरुदितैः खनिभ्यः ॥ २२ ॥
**अन्वयः—**तस्मिन् सुकृतोपलब्धां द्यां गते उत्खातशत्रुं शङ्खणं तत्संभवं अर्णवान्ता वसुधा खनिभ्य उदितैः रत्नोपहारैः उपतस्थे ।
तस्मिन्निति । तस्मिन्वज्रनाभे सुकृतोपलब्धां सुधर्मार्जितां द्यां स्वर्गं गते सति उत्खातशत्रुमुद्धृतशत्रुं शङ्खणं नाम तत्सम्भवं तदात्मजमर्णवान्ता वसुधा खनिभ्य आकरैभ्यः उदितैरुत्पन्नै रत्नोपहारैरूत्कृष्टवस्तुसमर्पणैरुपतस्थे सिषेवे । 'जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते' इति भरतविश्वौ ।
**भाषार्थ—**उन्होंने अपने पुण्य के बल से स्वर्ग प्राप्त किया और उनके पीछे शंखण नामक उनका शत्रुविनाशक पुत्र सारी पृथिवी का शासक हुआ ॥ २२ ॥
तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदमश्विरूपः ।
वेलातटेषूषितसैनिकाश्वं पुराविदो यं व्युषिताश्वमाहुः ॥ २३ ॥
**अन्वयः—**तस्य अवसाने हरिदश्वधामा अश्विनरूपः दिव्यं पदं प्रपेदे वेलातटेषु ऊषितसैनिकाश्वं यं पुराविदः व्युषिताश्व आहुः ।
तस्येति । तस्य शङ्खणस्यावसानेऽन्ते हरिदश्वधामा सूर्यतेजाः अश्विनोरिव रूपमस्येत्यश्विरूपोऽतिसुन्दरः । तत्पुत्र इति शेषः । पित्र्यमिति सम्बन्धिवपदसामर्थ्यात्, पित्र्यं पदं प्रपेदे । वेलातटेषूषिता निविष्टाः सैनिका अश्वाश्च यस्य तम् । अन्वर्थनामानमित्यर्थः । यं पुत्रं पुराविदो वृद्धा व्युषिताश्वमाहुः ।