रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 665, कुल 735 में से
संदर्भ में पढ़ें| ६०६ | रघुवंशमहाकाव्ये |
|---|
उन्होने ब्रह्मिष्ठ नाम के अपने ब्रह्मज्ञानी पुत्र को राज्य दे दिया और स्वयं ब्रह्म प्राप्ति के लिए वन में तप करने चले गये ॥ २८ ॥
तस्मिन्कुलापीडानिभे विपीडं सम्यङ्म्हीं शासति शासनाङ्काम् ।
प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः ॥ २९ ॥
अन्वयः—कुलापीडनिभे सुप्रजसि तस्मिन् प्रजेशे शासनाङ्कां महीं विपीडं विधाय सम्यक् शासति आनन्दजलाविलाक्ष्यः प्रजाः चिरं ननन्दुः ।
तस्मिन्निति । कुलपीडनिभे कुलशेखरतुल्ये । 'वैकक्षकं तु तत् । यत्तिर्यक्क्षिप्तमुरसि शिखास्वापीडशेखरो' इत्यमरः । सुप्रजसि सत्संतानवति । "नित्यमसिच्प्रजामेधयोः" इत्यसिच्प्रत्ययः । तस्मिन्प्रजेशे प्रजेश्वरे ब्रह्मिष्ठे शासनाङ्कां शासनचिह्नां महीं विपीडं निर्बाधं यथा तथा सम्यक्शासति सति आनन्दजलाविलाक्ष्य आनन्दबाष्पाकुलनेत्राः प्रजाश्चिरं ननन्दुः ।
भाषार्थ—श्रेष्ठ प्रजावाले ब्रह्मिष्ठ अपने कुलके शिरोमणि थे, उन्होंने बड़ी योग्यता से प्रजा का शासन किया, उनके सुन्दर शासन को देखकर प्रजाओं को आनन्द के आँसू आ जाते थे, उनके शासन में प्रजा बहुत दिनों तक सुख भोगती रही ॥ २९ ॥
पात्रीकृतात्मा गुरुसेवनेन स्पष्टाकृतिः पत्ररथेन्द्रकेतोः ।
तं पुत्रिणां पुष्करपत्रनेत्रः पुत्रः समारोपयदग्रसंख्याम् ॥ ३० ॥
अन्वयः—गुरुसेवनेन पात्रीकृतात्मा पत्ररथेन्द्रकेतोः स्पष्टाकृतिः पुष्करपत्रनेत्रः पुत्रः तं पुत्रिणां अग्रसंख्यां समारोपयेत् ।
पात्रीकृतेति । गुरुसेवनेन पित्रादिशुश्रूषया पात्रीकृतात्मा योग्यीकृतात्मा । 'योग्यभाजनयोः पात्रम्' इत्यमरः । पत्ररथेन्द्रकेतोर्गरुडध्वजस्य स्पष्टाकृतिः स्पष्टवपुः तत्सरूप इत्यर्थः । आकृतिः कथिता रूपे सामान्यवपुषोरपि' इति विश्वः । पुष्करपत्रनेत्रः पद्मदलाक्षः पुत्राख्यो राजा यद्वा पुत्रशब्द आवर्तनीयः पुत्रः सुतः तं ब्रह्मिष्ठं पुत्रिणामग्रसंख्यां समारोपयत् । अग्रगण्यं चकारेत्यर्थः ।
भाषार्थ—उनके पुत्र ने उन्हें पुत्रवानों का शिरोमणि बना दिया, वे पिता की सेवा-सुश्रूषा करने से बड़े योग्य थे, वे गरुडध्वज विष्णु के समान सुन्दर थे और उन कमललोचन का नाम भी पुत्र ही था ॥ ३० ॥
वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः ।
उपस्पृशन्स्पर्शानिवृत्तकौल्यस्त्रिपुष्करेषु त्रिदशत्वमाप ॥ ३१ ॥