भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 679, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 679

६२० रघुवंशमहाकाव्ये

तत्र सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरैः ।
अङ्गनास्तमधिकं व्यलोभयन्नर्पितप्रकृतकान्तिभिर्मुखैः ॥ १० ॥

अन्वयः—तत्र अंगनाः सेकहृतलोचनाञ्जनैः धौतरागपरिपाटलाधरैः । अर्पितप्रकृतिकान्तिभिः मुखैः तं अधिकं व्यलोभयन् ।

तत्रेति । तत्र दीर्घिकास्वङ्गनाः सेकेन हृतं लोचनाञ्जनं नेत्रकज्जलं येषां तैः । रज्यतेऽनेनेति रागो रागद्रव्यं लाक्षादिरागस्य परिपाटलोऽङ्गगुणः । 'गुणे शुक्लादयः पुंसि' इत्यमरः । धौतो रागपरिपाटलो अधरो येषां तं तथोक्ता अधरा येषां तैः । निवृत्तसांक्रमिकरागैरित्यर्थः । अत एवापितप्रकृतिकान्तिभिः अभिव्यञ्जितस्वाभाविकरागैरित्यर्थः । एवंभूतैर्मुखैस्तमग्निवर्णमधिकं व्यलोभयन् प्रलोभितवत्यः ।

भाषार्थ—जल में स्नान करने से जब उन स्त्रियों की आँखों का अञ्जन छूट जाता था और ओठों पर लगी हुई लाली धुल जाती थी तब उसकी स्वाभाविक सुन्दरतापर वह और भी मोहित हो जाता था ॥ १० ॥

घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियसखः ।
अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीरिव द्विपः ॥ ११ ॥

अन्वयः—प्रियासखः सः घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः वासिता द्विपः पुष्पिताः कमलिनीः इव अभ्यपद्यत ।

घ्राणेति । प्रियासखः सोऽग्निवर्णो घ्राणकान्तेन घ्राणतर्पणेन मधुगन्धेन कर्षिणीर्मनोहारिणीः रच्यन्त इति रचनाः पानभूमय एव रचनाः । रचिताः पानभूमय इत्यर्थः । वासितासखः करिणीसहचरः । 'वासिता स्त्रीकरिण्योश्च' इत्यमरः । द्विपः पुष्पिताः कमलिनीरिव अभ्यपद्यताभिगतः ।

भाषार्थ—जिस प्रकार हाथी खिली हुई कमलिनियों की गन्ध से परिपूर्ण तालाबों में हथिनियों के साथ प्रवेश कराता है, उसी प्रकार अग्निवर्ण भी सुन्दरी स्त्रियों के साथ मद्य के गन्ध से बसी हुई मद्यपानशाला में प्रवेश करते ॥ ११ ॥

सातिरेकमदकारणं रहस्तेन दत्तमभि लेषुरङ्गनाः ।
ताभिरप्युपहृतं मुखासवं सोऽपिबद्बकुलतुल्यदोहदः ॥ १२ ॥

अन्वयः—अंगनाः रहः सातिरेकस्य मदकारणं तेन दत्तं मुखासवं अभिलेषुः बकुलतुल्यदोहदः सः अपि ताभिः उपहृतं ( मुखासवं ) अपिबत् ।

सातिरेकेति । अङ्गना रहो रहसि सातिरेकस्य सातिशयस्य मदस्य कारणं तेनाग्निवर्णेन दत्तं मुखासवं मद्यमभिलेषुः । बकुले तुल्यदोहदस्तुल्याभिलाषः 'अथ दोह-