रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 681, कुल 735 में से
संदर्भ में पढ़ें६२२ रघुवंशमहाकाव्ये
इसका फल यह होता था कि उन्हें नाचना सिखाने वाले उनके जो गुरु वहाँ बैठे रहते थे उनके आगे वे अपनी इस बात पर लजा जाती थीं ॥ १४ ॥
चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमात् । प्रेमदत्तवदनानिलः पिबन्नत्यजीवदमरालकेश्वरौ ॥ १५ ॥
अन्वयः—च चारुनृत्यविगमे परिश्रमात् स्वेदभिन्नतिलकं तन्मुखं प्रेमदत्त- वदनानिलः पिबन् अमरालकेश्वरौ अत्यजीवयत् ।
'चार्विति । किच चारु सुन्दरं नृत्यविगमे लास्यावसाने परिश्रमान्नर्तनप्रयासात् स्वेदेन भिन्नतिलकं विशीर्णतिलकं तन्मुखं नर्तकीमुखं प्रेम्णा दत्तवदनानिलः प्रव- र्तितमुखमारुतः पिबन् अमराणामलकायाश्चेश्वराविन्द्रकुबेरावत्यजीवदतिक्रम्या- जीवत् । ततोऽप्युत्कृष्टजीवित आसीदित्यर्थः । इन्द्रादेरपि दुर्लभमीदृशं सौभाग्यमिति भावः ।
भाषार्थ—जब नृत्य समाप्त हो जाता था और नाचने के परिश्रम से नर्तकियों के मुख पर पसीने की बूंदे छा जाती थीं तब राजा अग्निवर्ण प्रेमपूर्वक मुख से फूंक लगाकर उनके मुख को चूमने लगता था, उस समय वह अपने को इन्द्र एवं कुबेर से भी बढ़कर सुखी तथा भाग्यवान् समझता था ॥ १५ ॥
तस्य सावरणदृष्टसन्धयः काम्यवस्तुषु नवेषु सङ्गिनः । वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः ॥ १६ ॥
अन्वयः—उपसृत्य नवेषु सङ्गिनः तस्य सावरणदृष्टसन्धयः संगमाः बल्ल- भाभिसामिभुक्तविषयाः चक्रिरे ।
तस्येति । उपसृत्यान्यत्र गत्वा नवेषु नूतनेषु काम्यवस्तुषु शब्दादिष्विन्द्रिया- र्थेषु संगिनः आसक्तिमतः सतस्तस्य सावरणाः प्रच्छन्ना दृष्टाः प्रकाशाश्च संधयः साधनानि येषु ते समागमाः संगमा वल्लभाभिः प्रेयसीभिः सामिभुक्तविषया अर्धोपभुक्तेन्द्रियार्थाश्चक्रिरे । यथेष्टं भुक्तश्चेत्तह्यंयं निष्पृहः सन्नस्मत्समीपं नाया- स्यतीति भावः । अत्र गोनर्दीयः—'सन्धिद्विविधः सावरणः प्रकाशश्च । सावरणो भिक्षुक्यादिना प्रकाशः स्वयमुपेत्य केनापि इति' । 'इतः स्वयमुपसृत्य विशेषार्थं तत्र स्थितोऽनुपजापं स्वयं सन्धेयः' इति वात्स्यायनः । अन्यत्र गतं कथंचित्सन्धाय पुनरुपगामायार्धोपभोगेननिवृत्ततृष्णं चक्रुरित्यर्थः ।
भाषार्थ—वह सदा नई-नई भोग की सामग्रियां चाहता था जिसके विषय से उसका मन भर जाता था, उसे वह छोड़ देता था । इसलिए स्त्रियां सम्भोग के समय राजा से आधी ही रति करके उठ जाती थीं क्योंकि उन्हें डर था कि यदि राजा पूर्णरूप से तृप्त हो जायेगा तो हमें छोड़ देगा ॥ १६ ॥