भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 694, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 694

एकोनविंशः सर्गः ६३५

अन्वयः— प्रियाः पयोधरनिषिक्तचन्दनः मौक्तिकग्रथितचारुभूषणैः श्रोणि-लम्बिमणिमेखलः ग्रीष्मवेशविधिभिः तं सिषेविरे।

तमिति। प्रियाः पयोधरेषु स्तनेषु निषिक्तमुक्षितं चन्दने येषु तैर्मौक्तिकैर्ग्रन्थि-तानि प्रोतानि चारुभूषणानि येषु तैः मुक्ताप्रायाभरणैरित्यर्थः। श्रोणिलम्बिन्यो मणिमेखला मरकतादिमणियुक्तकटिसूत्राणि येषु तादृशैर्ग्रीष्मवेषविधिभिरुष्णकालोचितनेपथ्यविधानैः शीतलोपायैरित्यर्थः। तमग्निवर्णं सिषेविरे।

भाषार्थ— ग्रीष्म ऋतु में स्तनों पर चन्दन लगाकर मोतियों का आभूषण पहनकर और नितम्बों पर मणि की करधनी लटकाकर वे स्त्रियाँ उस राजा अग्निवर्ण के साथ सम्भोग करके उसे प्रसन्न करती थीं ॥ ४५ ॥

यत्स लग्नसहकारमासवं रक्तपाटलसमागमं पपौ।
तेन तस्य मधु निर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः ॥ ४६ ॥

अन्वयः— सः लग्नसहकारं रक्तपाटलसमागमं आसवं पपौ यत तेन मधुनिर्गमात् कृशः तस्य चित्तयोनिः पुनर्भवः अभवत्।

यदिति। सोऽग्निवर्णो लग्नः सहकारश्चूतपल्लवो यस्मिंस्तं रक्तपाटलस्य पाटलकुसुमस्य समागमो यस्य तमासवं मद्यं पपौ इति यत्तेनासवपानेन मधुनिर्गमाद्वसन्तागमात्कृशो मन्दवीर्यस्तस्य चित्तयोनिः कामः पुनर्भवः प्रबलोऽभवत्।

भाषार्थ— उस समय वह आम्रपल्लव लगे हुए गुलाब के लाल-लाल फूल के पात्र में रखकर मद्य का पान करता था जिससे वसन्त बीतने से मन्द पड़ा हुआ उसका काम फिर जग उठता था ॥ ४६ ॥

एवमिन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः।
आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः ॥ ४७ ॥

अन्वयः— एवं अनङ्गवाहितः अन्यकार्यविमुखः सः पार्थिवः इन्द्रियसुखानि निर्विशन् आत्मलक्षणनिवेदितान् ऋतून् अत्यवाहयत्।

एवमिति। एवमनङ्गवाहितः कामप्रेरितोऽन्यकार्यविमुखः स पार्थिव इन्द्रियाणां सुखानि सुखकराणि शब्दादीनि निर्विशन्ननुभवन्नात्मनो लक्षणैः कुटजस्रग्धारणादिचिह्नैर्निवेदितान् अयमृतुरिदानीं वर्तत इति ज्ञापितान् ऋतून्वर्षादीनत्यवाहयदगमयत्।

भाषार्थ— इस प्रकार वह कामी राजा अग्निवर्ण राजकार्य को छोड़कर इन्द्रिय सुखों का आनन्द लेता हुआ ऋतुयें बिताने लगा। वह काम-क्रीड़ा के