भारतकोश
राजतरंगिणी (महाकवि कल्हण - सम्पूर्ण काश्मीर व भारत राजवंश इतिहास)

राजतरंगिणी (महाकवि कल्हण - सम्पूर्ण काश्मीर व भारत राजवंश इतिहास)

Rajatarangini of Kalhana with Hindi Translation

महाकवि कल्हण / पं. रघुनाथ सिंह द्वारा

DevanagariHindipublished984 पृष्ठ

पृष्ठ 118, कुल 984 में से

संदर्भ में पढ़ें
पृष्ठ 118

प्रथम तरङ्ग ३६ द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा । कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः ॥ —सभापर्व : ३४:१२ काश्मीराश्च कुमाराश्च घोरका हंसकायनाः । शिवि त्रिगर्त यौधेया राजन्या मद्र केकयाः ॥ —सभापर्व : ५२:१४ केकयान् मालवांश्चैव तथा काश्मीरकानपि । अद्राक्षमहमाहूतान् यज्ञे ते परिवेषकान् ॥ —म० :-वनपर्व ५१.२६ आवन्त्यान् दाक्षिणात्यांश्च पर्वतीयान् दशेरकान् । काश्मीरकानौरसिकान् पिशाचांश्च समुद्रगलान् ॥ —द्रोणपर्व ११:१६ भृगो रामाभिधावेति यदाक्रन्दन् द्विजोत्तमाः । ततः काश्मीरदरदान् कुन्तिशुद्रकमालवान् ॥ —द्रोणपर्व: ७०:११ काश्मीर मंडल के विशेष महत्त्व का उल्लेख महाभारत में मिलता है । काश्मीर मडल में उत्तर के ऋषियो यथा नहुष, यंयाति, अग्नि तथा कश्यप का परस्पर विचार विनियम हुआ था । काश्मीरमण्डलं चैतत् सर्वपुण्यमरिंदम ॥ महर्षिभिश्चाप्युषितं पश्येदं भ्रातृभिः सह ॥ १० ॥ यत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च । अग्नेश्चैवात्र संवादः काश्यपस्य तु भारत ॥११॥ —वन पर्व : १३० काश्मीर मंडल के चंद्रभागा तथा वितस्ता नदियो में सात दिन नित्य स्नान करने पर कहा गया है, मनुष्य निर्मल हो जाता है । सप्ताहं चन्द्रभागां वै वितस्ता भूमिमालिनीम् । विगाह्य वै निराहारो निर्मलो मुनिवद् भवेत् ॥७॥ काश्मीरमण्डले नद्यो या. पतन्ति महानदम् । ता नदी: सिन्धुमासाद्य शीलवान् स्वर्गमाप्नुयात्॥९॥ अनुशासन पर्व : २५:७०९ उत्तर दिशा में कश्यप का निवास बताया गया है । काश्मीर उत्तर दिशा में है : अत्रिर्वसिष्ठो भगवान् कश्यपेश्च महानृषिः । गौतमश्च भरद्वाजो विश्वामित्रोऽथ कौशिकः ॥३८॥ ऋषीकतनयश्चोग्रो जमदग्निः प्रतापवान् । धनेश्वरस्य गुरवः सप्तैते उत्तराश्रितः ॥ —अनुशासन पर्व : १५०:३८-३९ कश्यप की पत्नियां दक्ष की कन्याएं अदिति, दिति, दनु, काला, दनायु, सिंहिका, क्रोधा, प्राधा, विश्वा, विनता, कपिला, मुनि, कद्रू थी । ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह । प्रादात् ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ॥ —आदि पर्व १६:६ दितिर्दितिश्चैदनुः काला दनायुः सिंहिका तथा । क्रोधा प्राधा च विश्वा च विनता कपिला मुनि ॥१३॥ कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत । एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् ॥१३॥ —आदि पर्व : ६५:१२ सुर, असुर दोनों के पूर्वपुरुष कश्यप हैं । मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः । जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥ —आदि पर्व : ६६:३४ ज्येष्ठ पत्नी अदिति से १२ जनों का जन्म हुआ था : त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा । मारीचः कश्यपस्तस्यामादित्यान् समजीजनत् ॥ — आदि पर्व : ७५:१० कश्यप की पत्नी अदिति के गर्भ से भगवान् वामन का अवतार हुआ था । कश्यपस्यात्मजः श्रीमानदित्या गर्भधारितः । पूर्णे वर्षसहस्रे तु प्रसूता गर्भमुत्तमम् ॥