राजयोग (स्वामी विवेकानन्द - पातञ्जल योगसूत्र भाष्य सहित)
Raja Yoga - Swami Vivekananda with Patanjali Yoga Sutras
स्वामी विवेकानन्द / महर्षि पतञ्जलि द्वारा
पृष्ठ 299, कुल 307 में से
संदर्भ में पढ़ें२८२ राजयोग
गुरुणोक्तप्रकारेण रहस्येवं समभ्यसेत् । प्रातर्मध्यंदिने सायं स्नात्वा षट्कृत्व आचरेत् ॥ सन्ध्यादिकर्म कृत्वैव मध्यरात्रेऽपि नित्यशः । नाडीशुद्धिमवाप्नोति तच्चिह्नं दृश्यते पृथक् ॥ शरीरलघुता दीप्तिर्जठराग्निविवर्धनम् ॥ नादाभिव्यक्तिरित्येतल्लिङ्गं तच्छुद्धिसूचनम् ॥
* * *
प्राणायामं ततः कुर्याद्रेचपूरककुम्भकैः ॥ प्राणापानसमायोगः प्राणायामः प्रकीर्तितः ॥
* * *
पूरयेत् षोडशैर्मात्रैरापादतलमस्तकम् । मात्रैर्द्वात्रिंशकैः पश्चाद्रेचयेत् सुसमाहितः ॥ सम्पूर्णकुम्भवद्वायोर्निश्चल मूर्ध्नदेशतः । कुम्भक धारणं गार्गि चतु.षष्ट्या तु मात्रया ॥ ऋपयस्तु वदन्त्यन्ये प्राणायामपरायणाः । पवित्रभूताः पूतान्त्रा. प्रभञ्जनजये रता ॥ तत्रादौ कुम्भकं कृत्वा चतु.षष्ट्या तु मात्रया । रेचयेत् षोडशर्मात्रैर्नासिनेकेन सुन्दरि ॥ तयोश्च पूरयेद्वायुं शनै. पोडशमात्रया ।
* * *
प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्विषान् । प्रत्याहाराच्च संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥
व्याख्या—यथाविधि वांछित आसनों का अभ्यास करके, तदनन्तर, हे गार्गि, आसन पर जय प्राप्त कर प्राणायाम का।