रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 11, कुल 94 में से
संदर्भ में पढ़ें४ आयुर्वेदीयग्रन्थमाला । [ उपदेशः स्वेदितं मर्दयेद्भूयो बीजैर्दिव्यौषधोद्भवैः । तुल्यं खल्वे चतुर्यामं वज्रमूषान्वितं धमेत् ॥ २८ ॥ भस्मभूतं भवेत्तद्वै योज्यं सर्वरसायने । पारदमारणस्य द्वितीयः प्रकारः । शुद्धसूतं समं स्वर्णे याममम्लैर्विमर्दयेत् ॥ २९ ॥ प्रक्षाल्य ग्राहयेत् पिष्टीं पिष्ट्यर्थं शुद्धगन्धकम् । गन्धार्धं टङ्कणं दत्त्वा सर्वतुल्यां हरिद्रिकाम् ॥ ३० ॥ स्त्रीपुष्पेण तु तत्सर्वं मर्द्यं रम्भाद्रवान्वितम् । दिनान्ते गोलकं कृत्वा वालुकायन्त्रगं पचेत् ॥ ३१ ॥ दिनं मन्दाग्निना तं वै समुद्धृत्य विचूर्णयेत् । चूर्णांशं गन्धकं दत्त्वा गर्भयन्त्रे त्र्यहं पचेत् ॥ ३२ ॥ तुषाग्निना लघुत्वेन जायते भस्मसूतकः । पारदमारणस्य तृतीयः प्रकारः । शुद्धसूतत्रिभागः स्याद्भागैकं ताम्रचूर्णकम् ॥ ३३ ॥ दिनैकं मर्दयेदम्लैः क्षालितं पिष्टिमाहरेत् । माक्षिकाद्धौतसत्त्वं च पिष्टितुल्यं प्रकल्पयेत् ॥ ३४ ॥ तत्सर्वं त्रिदिनं मर्द्यं चक्रमर्ददलद्रवैः । तद्गोलं गर्भयन्त्रस्थं त्रिदिनं तुषवह्निना ॥ ३५ ॥ करीषाग्नौ दिवारात्रं पचेद्वा भस्मतां व्रजेत् । पारदमारणस्य चतुर्थः प्रकारः । शुद्धसूतं व्योमसत्त्वं सुवर्णं च समं समम् ॥ ३६ ॥ सर्वतुल्यं विडं दत्त्वा मर्द्यं रम्भाद्रवैर्दिनम् । बीजैर्दिव्यौषधीनां च तुल्यैर्मर्द्यं दिनद्वयम् ॥ ३७ ॥ गर्भयन्त्रगतं पच्यान्म्रियते पूर्ववत्पुटे । १ '-र्दिव्यौषधिद्रवैः' ख. । २ 'सूतभस्म' ख. । ३ 'गडुकायन्त्रगं' क. । ४ 'शुद्धसूतं त्रिधा गन्ध्यं मागैकं' ख. । ५ 'पचेदग्नौ' ख. ।