रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 21, कुल 94 में से
संदर्भ में पढ़ें१४ आयुर्वेदीयग्रन्थमाला । [उपदेशः अश्वगन्धासमां यष्टिं धात्रीफलरसैर्दिनम् । भावितां लेहयेत्क्षौद्रैः पलैकां क्रामकं परम् ॥ ८० ॥ श्रीकण्ठरसः । स्वर्णतारार्ककान्तं च तीक्ष्णं वा मारितं समम् । कृष्णाभ्रसत्त्वमाक्षीकं प्रत्येकं स्वर्णतुल्यकम् ॥ ८१ ॥ तत्सर्वं चान्धितं धाम्यं तत्खोटं मृतपारदम् । समं मृतामृतं वज्रं पादांशं तत्र योजयेत् ॥ ८२ ॥ सर्वं जम्बीरजैर्द्रवैस्तप्तखल्वे विमर्दयेत् । दिनैकं तं निरुध्याथ भूधरे पाचयेद्दिनम् ॥ ८३ ॥ उद्धृत्य गन्धकं तुल्यं दत्त्वा रुद्ध्वा धमेद्द्रुतम् । तच्चूर्णं मधुनाऽऽज्येन माषमात्रं लिहेत्सदा ॥ ८४ ॥ रसः श्रीकण्ठनामाऽयं खेचरत्वं प्रयच्छति । संवत्सरप्रयोगेण जीवेत्कल्पान्तमेव च ॥ ८५ ॥ तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् । पलैकं गन्धकं क्षीरैः क्रामकं चानु पाययेत् ॥ ८६ ॥ खेचरबद्धरसः । शुद्धताम्रस्य भागैकं द्विपद् शुद्धरसस्य च ॥ त्रयं भूनागसत्त्वस्य भागमेकत्र कारयेत् ॥ ८७ ॥ सर्वं मर्द्यं तप्तखल्वे जम्बीराणां द्रवैर्दिनम् । तत्सर्वं कच्छपे यन्त्रे क्षिप्त्वा तत्रैव गन्धकम् ॥ ८८ ॥ कासमर्दरसैः पिष्टं तुल्यं दत्त्वा निरुध्य च । यावज्जीर्णे पुटे पच्यादेवं षड्गुणगन्धकम् ॥ ८९ ॥ जारयेत्क्रमयोगेन समुद्धृत्याथ मर्दयेत् । यामं जम्बीरजैर्द्रवैस्ततो निश्चन्द्रमभ्रकम् ॥ ९० ॥ अम्लवेतससंतुल्यं मर्दितं दापयेद्रसे । षोडशांशं तप्तखल्वे चणकाम्लं च तालकम् ॥ ९१ ॥