भारतकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 31, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 31

२४ आयुर्वैदीयग्रन्थमाला । [उपदेशः पलैकं क्रामकं लेह्यमनुपानं सदैव हि । कामसुन्दरीगुटिका । स्वर्णचूर्णं तु भागैकं त्रिभागं शुद्धपारदम् ॥ ५६ ॥ पादभागं मृतं वज्रं तत्सर्वं क्षीरकन्दजैः । द्रवैश्च देवदाल्युत्थैस्तप्तखल्वे दिनावधि ५७ ॥ मर्दयेत्कान्तचूर्णं च वज्रतुल्यं क्षिपेच्च वै । वज्रमूषान्धितं धाम्यं गुटिका कामसुन्दरी ॥ ५८ ॥ जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा । निष्कत्रयं ब्रह्मतैलं गवां क्षीरं पलद्वयम् ॥ ५९ ॥ मिश्रितं पाययेच्चानु लक्षायुर्जायते नरः । गान्धारीगुटिका । लोहपात्रे द्रुते गन्धे पादांशं पारदं क्षिपेत् ॥ ६० ॥ किंचिच्चाल्यं तु काष्ठेन मुहूर्तादवतारयेत् । शतावरी क्षीरकन्दो वज्रवल्लीन्द्रवारुणी ॥ ६१ ॥ पाठा पुनर्नवा चिञ्चा लाङ्गली सुरदालिका । एतासां वस्त्रपूतैश्च द्रवैर्मर्घ्यं दिनत्रयम् ॥ ६२ ॥ तस्मिन् पात्रे लोहमुष्ट्या छायांशुष्कं वटीकृतम् । लोहसंपुटगं रुद्धा संधिं मृल्लवणैर्दृढम् ॥ ६३ ॥ तं धमेत्खदिराङ्गारैर्यावदारक्तमुद्धरेत् । उत्खन्योत्खन्य तन्मध्यादुद्धरेच्चद्रसं पुनः ॥ ६४ ॥ काचटङ्कणसंयुक्तं मूषायां चान्धितं पचेत् । गान्धारीगुटिका सिद्धा वर्षे वक्त्रे स्थिता सदा ॥६५॥ काकतुण्डीबीजतैलं कर्षैकं नस्यमाचरेत् । क्रामकं ह्यनुपानं स्याज्जीवेद्वर्षसहस्रकम् ॥ ६६ ॥ मातङ्गी गुटिका । शुद्धसूतसमं गन्धं मर्दनात्कजलीकृतम् । १ 'शुष्कं तं च विचूर्णयेत्' ख.