भारतकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 48, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 48

४.] रस्रत्नाकरस्य रसायनखण्डः । ४१ सम्यक्कान्तमये पात्रे धात्रीचूर्णं शिवाम्बुना ॥ ३७ ॥ रात्रौ पलैकं संलिप्य प्रातरुत्थाय भक्षयेत् । वलीपलितनिर्मुक्तो वत्सरान्मृत्युजिद्भवेत् ॥ ३८ ॥ लेपयेत्कान्तपात्रान्तः पलैकं त्रिफलामधु । दिवारात्रं स्थितं पेयं तन्नित्यं तु शिवाम्बुना । वर्षान्मृत्युं जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ ३९ ॥ ‘ॐ हः अमृते अमृतशक्ति अमृतगन्धोपजीवि निष्पन्नं चन्द्रामृतं आज्ञापितं कुरु कुरु स्वाहा हे हे हं हः गम्’ इति गन्धकलोहयोर्भक्षणमन्त्रः ॥ सर्वेषां लोहयोगानामनु स्यात्क्षीरपानकम् । आस्वादेत्स्वादुमुस्तानां स्वरसं दन्तपीडितम् ॥ ४० ॥ मूलानि भक्षयेत्तासामास्यवैरस्यशान्तये । बद्धे कोष्ठे तु दीप्ताग्नौ तप्तं क्षीरं पिवेत्सदा ॥ ४१ ॥ स्नानमर्दनतीक्ष्णोष्णं विष्टम्भे सति वर्जयेत् । ताम्बूलं भक्षयेन्नित्यं सकर्पूरं मुहुर्मुहुः ॥ ४२ ॥ सम्यग्जीर्णे तु दीप्ताग्नौ पिवेत्पश्चाद्बुलुक्षितः । शृतं क्षीरं ततोऽन्नं च सेव्यं लोहरसायने ॥ ४३ ॥ ब्रह्मवृक्षकल्पः । ब्रह्मवृक्षस्य पञ्चाङ्गं छायाशुष्कं सुचूर्णितम् । मध्वाज्याभ्यां लिहेत्कर्षं वर्षैकेन जरां जयेत् ॥ ४४ ॥ जीवेद्वर्षसहस्रैकं दिव्यतेजा महाबलः । ब्रह्मवृक्षस्य पुष्पाणि छायाशुष्काणि कारयेत् ॥ ४५ ॥ त्रिंशत्पलं तु तच्चूर्णं चतुर्विंशत्पलं घृतम् । एकीकृत्य क्षिपेद्भाण्डे तं रुद्धा धान्यराशिगम् ॥ ४६ ॥ कृत्वा मासात्समुद्धृत्य भागान् कुर्याच्चतुर्दश । भागैकं भक्षयेन्नित्यं भुञ्जीत कान्तभाजने ॥ ४७ ॥