रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 52, कुल 94 में से
संदर्भ में पढ़ें४.] रसरत्नाकरस्य रसायनखण्डः । ४५ कर्षमात्रं पिवेन्नित्यं मासैकमुदकैः सह । आरनालैस्ततस्तक्रैर्दधिक्षीराज्यक्षौद्रकैः ॥ ७८ ॥ प्रत्येकेन क्रमात्सेव्यं मासैकेन जरापहम् । जीवेद्ब्रह्मदिनं सार्धं वज्रकायो महाबलः ॥ ७९ ॥ ‘ॐ गरविषं दृष्टौ गृह्णामि स्वाहा ।’ हस्तिकर्णग्रहणमन्त्रः ॥ ‘ॐ अमृतकुटीजातानां अमृतं कुरु कुरु स्वाहा ।’ अनेन पूजयेत् । ‘ॐ अमृतोद्भवाय अमृतं कुरु कुरु नित्यं नमो नमः।’ भक्षणमन्त्रः ॥ रुदन्तीकल्पः । रुदन्त्याश्चैव पञ्चाङ्गं छायाशुष्कं विचूर्णयेत् । तदर्धं मुशलीचूर्णं मुशल्यार्धं फलत्रयम् ॥ ८० ॥ मूलानां कतकोत्थानां तैलं पातालयन्त्रके । ग्राहयेद्धर्मयन्त्रे वा तत्तैलं क्षालयेज्जलैः ॥ ८१ ॥ नालिकेरजलैर्वाऽथ क्षाल्यं पञ्चांशवारकम् । एतत्तैलेन संयुक्तं पूर्वचूर्णं लिहेत्क्रमात् ॥ ८२ ॥ कर्षादिवर्धनं कार्यं पलान्तं चाथ वर्धयेत् । एवमब्दाज्जरां हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥ ८३॥ सिद्धयोगो ह्ययं ख्यातो वज्रकायकरो नृणाम् । निर्गुण्डीकल्पः । पुष्यार्के ग्राहयेत्प्रातर्निर्गुण्डीमूलजां त्वचम् ॥ ८४ ॥ छायाशुष्कां विचूर्ण्याथ कर्षमेकं पिवेत्सदा । अजामूत्रपलैकेन षण्मासादमरो भवेत् ॥ ८५ ॥ वर्षमात्रप्रयोगेण शिवतुल्यो भवेन्नरः । तच्चूर्णं क्षीरमध्वाज्यैर्लोडितं स्निग्धभाण्डके ॥ ८६ ॥ १ 'अमृतकुक्षिजातानां' ख. । २ 'पञ्चांशवासरम्' ख.।