रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 107, कुल 558 में से
संदर्भ में पढ़ें८४ रसार्णवे लेपं मूषोदरे¹ दत्त्वा समावर्त्तं तु² कारयेत् । म्रियन्ते हीरकास्तत्र द्वन्द्वे सम्यग्ज्वलन्ति च ॥ ८६ ॥ गन्धकं च शिलाधातुं³ भ्रामकस्य मुखं तथा⁴ । शशकस्य च दन्तांश्च⁵ बेतसाम्लेन पेषयेत् ॥ ८७ ॥ अनेन सिद्ध⁶कल्केन मूषालेपं⁷ तु कारयेत् । अन्धमूषागतं ध्मातं⁸ वज्रं तु म्रियते क्षणात् ॥ ८८ ॥ तेनैव⁹ मिलितं वज्रं तारहेम्नि न संशयः ॥ ८९ ॥ तालकं गन्धकं कान्तं तार्यं कर्पूरटङ्कणम् । चिञ्चास्थि¹⁰ मेषशृङ्गं च¹¹ क्षौरजःपरिपेषितम्¹² । मूषालेपगतं¹³ ध्मातं वज्रं तु म्रियते क्षणात् ॥ ९० ॥ शरपुङ्खस्य पञ्चाङ्गं¹⁴ पेष्यं क्षौरजसा ततः¹⁵ । (1) K reads मूखोदरे, which is incorrect. Vide p. 39, note (11). (2) K reads सन्नवाका तु. (3) गन्धकस्य शिलाधातु, an incorrect variant in K. M reads गन्धकस्य शिलाजातु, which is also inc. (4) K has भ्रामकस्य मुखस्तथा, which is gram. inc. (5) B reads दन्ताश्च, which is not correct. K reads शशकस्य तु दन्ताश्च, which is also not perfectly correct. (6) M reads सत्व. (7) Both B and K read मूखालिप्त. Vide p. 39, note (11). (8) B has not the term ध्मात. K reads मूखागत. (9) B reads तेनेन, which is evidently an error. After this charana two ślokas are wanting in M. (10) K reads चिंचास्थि, which is not correct. (11) B reads मेषशृङ्गं च. (12) K reads परौवेष्टितं, which is inc. (13) K reads मूखालिपागतं, which is not correct. (14) K has सर्वाङ्गं. (15) B reads erroneously क्षौरजस ततः. K reads रससमन्वितम्. M. reads रजसाशतः, which is erroneous.