भारतकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 161, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 161

१३८ रसार्णवे शुक्लपुष्पगणैः सेकं स्नेहयुक्तैस्तु कारयेत् ॥ ७२ ॥ उक्तानि तारबीजानि—बीजानां रञ्जनं शृणु ॥ ७३ ॥ तीक्ष्णमाक्षिकशुल्बञ्च¹ नागञ्चपलमारितम्² । सिन्दूरसन्निभं यावत्³ तेन बीजानि रञ्जयेत् ॥ ७४ ॥ निधाय खर्परे नागं ब्रह्मबीजदलैः सह । दग्धमग्निमधो⁴ दत्त्वा वह्निवर्णं यदा⁵ भवेत् ॥ ७५ ॥ वासकेन विभौतेन⁶ काक⁷किंशुकशिग्रुभिः । कोरण्डकस्य⁸ पुष्पेण वकुलस्यार्जुनस्य⁹ च ॥ ७६ ॥ अद्दिमारेण¹⁰ नागिन्या¹¹ कुमार्य्या नागकन्यया । शिलया¹² च त्रिगुणया कथितेनाजवारिणा¹³ ॥ ७७ ॥ भावितं खर्परस्थञ्च वापयित्वा¹⁴ पुनः पुनः । सप्तभिर्दिवसैरेव मारितं सुरवन्दिते¹⁵ ॥ ७८ ॥ पुटयेद्द्रव्यकेनादा¹⁶वाख्येन तदनन्तरम् । (1) K has तीक्ष्ण माचीकशुल्बञ्च. (2) नागं चपलमारितं, a variant in K, which has no clear sense. (3) K reads सन्निभां याते. M reads सिन्दूर. (4) दग्धमग्निमथो, a variant in M. (5) M reads यथा. (6) वासकेन समूलेन, a variant in M. (7) K reads शाक. (8) M reads कोरङ्गस्य च. (9) M has वल्कलेनार्जुनस्य. (10) K reads अद्दिमात्रेण, which seems to be inc. (11) M reads नामिन्या, which is incorrect. (12) K reads सिलया. (13) K reads काथितेन. (14) M reads प्लावयित्वा. (15) M has सुरसुन्दरि. (16) पूरयेद्द्रव्यकेनाथ, a variant in M.