रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 164, कुल 558 में से
संदर्भ में पढ़ेंनवमः पटलः। ─•(●)•─ श्रीदेव्युवाच ।¹ बीजानां कल्पनं² प्रोक्तं विशेषेण च साधनम्³ । जार्यन्ते⁴ तानि यैः सूते⁵ तान् विडान् वक्तुमर्हसि ॥ १ ॥ श्रीभैरव उवाच ।⁶ काशोसं⁷ सैन्धवं काङ्क्षी⁸ सौवीरं व्योषगन्धकम् । सौवर्चलं सर्जिका च⁹ मालतीनीरसम्भवम्¹⁰ । शिग्रुमूलरसैः¹¹ सिक्तो विड़ोऽयं सर्व्वजारणः ॥ २ ॥ निर्दग्धं शङ्खचूर्णन्तु रविक्षीरशतप्लुतम् । पुटितं¹² बहुशो देवि प्रशस्तो जारणाविड़ः¹³ ॥ ३ ॥ शतशो वा प्लुतं चूर्णं गन्धकस्य गवां जलेः ॥ ४ ॥ निर्दग्धं शङ्खचूर्णं तु¹⁴ शिग्रुमूलाम्बुभावितम् । (1) M reads श्रीदेवी. (2) K reads प्रथमं. (3) K has विशेषरससाधन. (4) K reads जायन्ते. (5) M reads सूता, which is gram. incorrect. (6) M has श्रीभैरवः. (7) M reads कासीसं. (8) K reads साङ्क्षी. (9) K has व्योषका च, which creates a tauto- logy. (10) K reads मालतीरससम्भवः. We find also मालतीतोरसम्भवम् in the medical lexicons. (11) K reads शिग्रुमूलरसैः, which is inc. (12) . K reads erroneously पुटीत. (13) K has प्रशस्तो जारणे विदुः, wherein the first term is gram. inc. (14) M reads शङ्कचुर्ण तु.