रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 172, कुल 558 में से
संदर्भ में पढ़ेंदशमः पटलः । १४६ अनियम्य यदा¹ सूतं जारयेत् काञ्जिकाग्नये² । जायते निश्चितं भद्रे तदा³ तस्य गतिद्वयम् ॥ २२ ॥ दोलास्वेदेन चावश्यं⁴ स्विदितो हि दिनत्रयम्⁵ । वसुभण्डादिभि⁶र्देवि रसराजो न⁷ हीयते ॥ २३ ॥ प्रक्षीणं तु रसं दृष्ट्वा दद्या⁸ व्योमादिकं ततः । स्वेदनं च⁹ ततः कार्यं दीयमानस्य मर्दनम् ॥ २४ ॥ रसालिङ्गित आहारः¹⁰ पिष्टिकेत्यभिधीयते । तद्द्रुतं रसगर्भे तु जारणं परिकीर्तितम् ॥ २५ ॥ जारणा तन्ममाख्याता तदेवञ्चोपलभ्यते¹¹ । जीर्णान्ते रञ्जनं कार्यं रक्तवर्ग¹²गुणेन च ॥ २६ ॥ जीर्णां जार्णन्तु¹³ संरक्तं¹⁴ समहेम्ना तु सारयेत् । सारणायन्त्रयोगेन बध्यते सारितो¹⁵ रसः ॥ २७ ॥ (1) M reads यथा, which seems to be incorrect. (2) जालयेत् काञ्जिकाशय, a variant in K. (3) M reads यथा, which is not correct. (4) K reads दालास्वेदनतोऽवश्य. M reads डाला in place of दोला. (5) The portion commencing from दिनत्रयम् and ending in रसराजो न ही is wanting in K. (6) M reads वसुभट्टादिभि. (7) M has रसराजेन, which is not accurate. (8) K reads देंया, which is gram. inc. (9) K reads तु. (10) रस लिङ्गीतकाहार, an incorrect variant in K. (11) K has नान्यैव नोपलभ्यते. (12) K reads रक्तवर्णं. (13) M reads जाणौजीर्णे तु. (14) M reads संरक्त (without अनुस्वार). (15) M has सारता, which seems to be the error of the scribe.