रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 174, कुल 558 में से
संदर्भ में पढ़ेंदशमः पटलः । १५१ षड्रजः सर्षपः साक्षात्¹ सिद्धार्थः स च कीर्त्तितः² । षट्सिद्धार्थैश्च देवेशि यवस्त्वेकः प्रकीर्त्तितः ॥ ३३ ॥³ षड्यवैरेकगुञ्जा स्यात्⁴ पञ्चगुञ्जैश्चैकमाषकः । माषा द्वादश तोलः स्यात्⁵ षष्टी तोलाः पलं भवेत्⁶ ॥३४॥ द्वात्रिंशत्पलकं देवि शुभ्रम्भु⁷ परिकीर्त्तितम् । शुभ्रस्य तु सहस्त्रे द्वे भार एकः प्रकीर्त्तितः ॥ ३५ ॥ द्वे सहस्त्रे पलानान्तु सहस्त्रं शतमिव वा । अष्टाविंशत् पलानान्तु दश पञ्चकमेव वा ॥ ३६ ॥⁸ पलार्द्धेनैव⁹ संस्कारः कर्त्तव्यः सूतकस्य तु ॥ ३७ ॥ महाबला नागबला मेघनादा-पुनर्नवम्¹⁰ । मेषशृङ्गी¹¹ च तक्षारैः¹² नवसारसमन्वितम्¹³ ।
(1) M reads षड्रकः, which is an error of the scribe. रस.स. reads स स्यात्. (2) K has सिद्धार्थः स च प्रकीर्त्तितः, wherein प्र is redundant. (3) This hemistich is wanting in K. रस.स. reads षट्सिद्धार्थेण. (4) रस.स. has तु instead of स्यात्. After this charaṇa we find in रस.स. “त्रिगुञ्जा वल्ल उच्यते। षड्भिरेव तु गुञ्जाभिर्माष एकः प्रकीर्त्तितः ।” (5) माष- द्वादश तोला स्यात्, a variant in K. (6) K has सप्ततुभिः पलं भवेत्, thus differing from other texts as well as from रस.स. [Vide Chap. X. v. 105.] (7) K reads शुभ्रन्तु. M reads शुभ्रस्तु. (8) This śloka nearly agrees with रस.स. [Vide Chap. XI. v. 21.] (9) M reads पलादूनं न. (10) K reads पुनर्णवा. (11) K reads मेषशृङ्गा. (12) K reads तक्षारै. (13) M reads एव सारसमन्वितम्, which appears to be incorrect.