रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 199, कुल 558 में से
संदर्भ में पढ़ें१७६ रसार्णवे ततः शलाकया ग्रासान्$^१$ अग्निस्थो ग्रसते रसः$^२$ ॥ १२४ ॥ ततो रत्नानि आर्याणि$^३$ वक्ष्यमाणक्रमेण तु$^४$ ॥ १२५ ॥ अभ्रकं भ्रामकञ्चैव$^५$ शंखनाभिं$^६$ तथैव च । रसानुपरसान् दत्त्वा$^७$ महाजारसमन्वितान्$^८$ ॥ १२६ ॥ वज्रकन्दं वज्रलता$^९$ मेषशृङ्गमृतायसम्$^{१०}$ । कटुतुम्बस्य वीजानि मृतलोहानि पाचयेत्$^{११}$ ॥ १२७ ॥ सर्वाणि समभागानि शिखिशोषितमाचितम्$^{१२}$ । तावत्सं मर्दयेत् प्राज्ञो यावत् कुम्भं दृढं भवेत् ॥ १२८ ॥ मूषा वस्त्राकृतिश्चैव$^{१३}$ कर्त्तव्या छादनैः सह । तन्मध्ये स्थापयेत् सूतं अधोवातेन धामयेत्$^{१४}$ ॥ १२९ ॥ आदौ तत्रैव दातव्यं$^{१५}$ वक्त्रमौषधलेपितम्$^{१६}$ । गृह्यते कोऽत्र$^{१७}$ सन्देहो यथा तीव्रे हुताशने$^{१८}$ ॥ १३० ॥
(1) K reads ग्रासम्. (2) This charana is wanting in M. (3) K reads नानानि, which is gram. incorrect, the word नाना being an indeclinable. (4) K has वलमान. (5) K reads भामकञ्चैव. (6) M reads मुखनाभिः. (7) K has रसानुपरसा दत्त्वा. M has रमा- नवरसांस्तथा. (8) K has महाजारसमन्वितम्. M has महाजारसमन्वितम्. (9) कटलभा मद्य, an incomplete variant in K. (10) K reads मतायस, which seems to be an error of the scribe. (11) M reads सेचयेत्. (12) शिखिशोणितेसमन्वितं, a variant in K. (13) मूषा वस्त्राकृतीयेव, a variant in K. मूषामत्स्याकृतिश्चैव, a variant in M. (14) M reads वयंवातेनं धारयेत्. (15) K has आदौ तावत् प्रदातव्यं. (16) K reads लेपन. (17) K reads नाव. (18) यथापूर्वं हुताशनं, a variant in K.