रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 280, कुल 558 में से
संदर्भ में पढ़ेंद्वादशः पटलः । २५७ अथ तेनोदकेनैव क्षीराद्धं पायसं पचेत् । मासमात्रप्रयोगेण बलीपलिंतनाशनम् ॥ ३०७ ॥ पक्त्वा¹ तेनाम्भसा पथ्याः षष्टिं² त्रीणि शतानि च । मधु संयोज्य भाण्डस्थं³ भूमौ सब्दं निधापयेत् ॥ ३०८ ॥ दिने दिने तथैकैकं भक्षयेत् प्रातरुत्थितः⁴ । बलीपलिंतनिर्मुक्तो जीवेद्वर्षसहस्रकम् ॥ ३०९ ॥ शैलीभूतं कुलत्थं वा⁵ भक्षयेन्मधुसर्पिषा⁶ । षण्मासेन प्राशनेन⁷ जीवेद्वर्षसहस्रकम् ॥ ३१० ॥ कूष्माण्डं मारितं कृत्वा⁸ यानि कानि⁹ फलानि च । जले क्षिप्तानि लोहानि शैलीभूतानि¹⁰ भक्षयेत् । क्षीराहारश्च¹¹ जीर्णान्ते वज्रकायो भवेन्नरः ॥ ३११ ॥ तेनोदकेन संमर्द्य अभ्रकं¹² क्वाथयेत् प्रिये । (1) B reads पक्तां and पथ्या. Both of them are incorrect. (2) B reads षष्टी. K and M read षष्टि. Both are incorrect. (3) K has मधुना योज्य भाण्डस्थं, wherein the middle term is incorrect. M reads भाण्डीत्यं, which is inaccurate. (4) M reads पुनरुत्थितः. (5) This śloka (310) is not found in K. M has शैलभूत कुलत्थं वा, which is incor- rect. (6) M reads मधुसर्पिषम्, which is not correct. (7) B reads प्रवेशेन. M reads षाण्मासापवशेन, which has no sense at all. (8) All the texts read कूष्माण्ड, which is also correct. K reads मरिचं कृत्वा, which is not correct. (9) K reads जातकानि, which is incorrect. (10) B reads शैलीभूनिनि, which is incorrect. M reads erroneously त्रिभू- तानि. (11) K reads क्षीराहारं च, which seems to be incorrect. (12) M has समर्द्यमभ्रक. 33