रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 354, कुल 558 में से
संदर्भ में पढ़ेंपञ्चदशः पटलः । ३३१ चतुःपले तु रुद्रत्व-मीशः¹ पञ्चपले भवेत् ॥ ८१ ॥ षट्पले भक्षिते देवि सदाशिवतनुर्भवेत् ॥ ८२ ॥ सूतकं गन्धकं तारं² मेषवल्लीरसेन च³ । त्रिदिनं मर्दयेत्तीक्ष्णं⁴ वङ्गपादेन मेलयेत्⁵ । अन्धमूषागतं ध्मातं वङ्गं स्तम्भयति क्षणात् ॥ ८३ ॥ चूर्णितं गन्धकं देवि मर्कटी⁶रसभावितम् । भावयेच्छतवारांस्तु जीव⁷भस्म तु गच्छति ॥ ८४ ॥ दीपयेन्मृन्मये⁸ पात्रे रसेन सह संयुक्तम् । तापयेद्रवितापेन मर्कटी⁹रससंयुक्तम् ।¹⁰ गन्धकं ग्रसते सूतः¹¹ पिष्टिका¹² भवति क्षणात् ॥ ८५ ॥ तिलपर्णी¹³रसेनेव गन्धकं भावयेत् प्रिये । सप्त वारांस्तु देवेशि छायाशुष्कं पुनः पुनः ॥ ८६ ॥ शोधितं पातितं सूतं पलैकप्रमितं¹⁴ प्रिये । (1) All the texts read ईशः , but ईश is proper. (2) M reads कान्तं. (3) मेषवल्लीरसे समाः, a variant in B. अष्टवल्लीरसेन च, a variant in K. मेषवल्लीरसैस्सह, a variant in M. मेषवल्लीरसे समाः, a variant in My. (4) M and My read मर्दयेत्तीक्ष्ण. (5) वंकपत्रेषु लेपयेत्, a variant in M. वंगपादेन लेपयेत्, a variant in My (6) My reads कर्कोटी. (7) My reads बीज. (8) B and My have दापयेन्मृन्मये. M has तापयेन्मृन्मये. (9) My reads कर्कोटी. (10) This hemistich is