भारतकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 359, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 359

३३६ रसार्णवे तालपिष्टोपलैकं¹ तु पलैकं गन्धकस्य च । द्वे पले शुद्धसूतस्य² दिनमेकन्तु तेन वै ॥ ११० ॥ एकौकृत्याय संमर्द्य उन्मत्तरसेन च । मारयेत् पातनायन्त्रे धमनात् खोटतां नयेत् ॥ १११ ॥ ॥ इति तालकबन्धः ॥ शुद्धनागपलैकं च पलैकं सूतकस्य च । पलद्वयं कुलत्थाश्च सर्व्वमेकत्र मर्दयेत्³ । मारयेत् पातनायन्त्रे धमनात् खोटतां नयेत् ॥ ११२ ॥ हेमपिष्टिपलैकं तु पलैकं गन्धकस्य च । एकौकृत्याय संमर्द्य धुस्तूरकरसेन⁴ च । मारयेत् पातनायन्त्रे धमनात् खोटतां नयेत् ॥ ११३ ॥⁵ कृष्णाभ्रकस्य सत्त्वं च कान्तं तीक्ष्णं च हाटकम् । शुद्धशुल्बं च तारं च माक्षिकं समभागिकम्⁶ । अन्धमूषागतं ध्मातं खोटो⁷ भवति तत्क्षणात् ॥ ११४ ॥ (1) K reads तालपिष्टिपलैकं. This charaṇa and the next seven are not found in M and My, (2) B reads द्वौपले, which is incor- rect. K reads द्विपलं. (3) K reads रंजयत्, which seems to be incorrect. (4) K and My have धत्तूरकरसेन. (5) We do not find 112th and 113th ślokas in B. We find the following hemis- tich in K only :— हेमपिष्टिपलैकं तु पलैकं गंधकस्य तु, which seems to us a repetition. (6) शुद्धशुल्बतारं च माक्षिकं समभागानि कारयेत्, a variant in B, which appears to us irregular. शुद्धतारञ्च माक्षिकं समभागानि कारयेत्, a vari- ant in M and My, wherein शुल्ब is not mentioned. (7) M reads खोटी..