भारतकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 373, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 373

३५० रसार्णवे विषबीजं¹ ब्रह्मबीजं बीजानि कनकस्य च । मूलानि यवचिञ्चायाः² लाङ्गली चेन्द्रवारुणी ॥ १८१ ॥ कोकिलाक्षंस्नुहीक्षीरं³ सैन्धवाभ्रकगुग्गुलु । पिष्टीं संवेष्ट्य⁴ कल्केन पूर्व्ववत् खोटतां नयेत् ॥ १८२ ॥ लाङ्गली ब्रह्मबीजानि विष्ठा काकस्य गुग्गुलुः । श्वेताश्कमारमूलानि मूलं कनकवारुणी ॥ १८३ ॥ तैलं सैन्धवसंयुक्तं मर्दयेत्तद्विचक्षणः । पिष्टीं संवेष्ट्य कल्केन पूर्व्ववत् खोटतां नयेत् ॥ १८४ ॥ वाकुची ब्रह्मबीजानि जीरकद्वयगुग्गुलु । सैन्धवाभ्रं कुलीरास्थि टङ्कणं ज्वलिनीरसः⁵ ॥ १८५ ॥ पिष्टीं संवेष्ट्य कल्केन मृदा तु पुमरुष्टधा । तुष⁶कर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् ॥ १८६ ॥ अहोरात्रं त्रिरात्रं वा⁷ रसेन्द्रं खोटतां⁸ नयेत् । दशसंकलिकायोगात्⁹ शब्दवेधी महारसः¹⁰ ॥ १८७ ॥

(1) B reads वीषबीजं. D reads व्याघ्रीबीज. (2) D reads यव चिंचाया. K reads मुखानि यवचिंचाया. Both are incorrect. (3) K has कोकिलाक्षस्नुहीक्षीरं, which is incorrect. My has बुद्धिचीर. (4)