रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 382, कुल 558 में से
संदर्भ में पढ़ेंषोडशः पटलः । ३५८ लोकानुग्रहकर्त्ता च भुक्तिमुक्तिप्रदायकः । जारयेच्च महानीलं तत्त्वसंख्याक्रमेण¹ तु ॥ २६ ॥ भ्रमते दक्षिणावर्त्तस्तदासौ खेचरो रसः² । वेधयेत् सर्व्वलोहानि भारसंख्यानि³ पार्व्वति ॥ २७ ॥ एवं जीर्णस्य सूतस्य शृणु कापालिरञ्जनम् ॥ २८ ॥⁴ शुल्वपत्रपलैकं तु⁵ पलार्द्धं⁶ गन्धकस्य च । टङ्कणं कर्षमेकं तु कर्षैकां रसकज्जलीम्⁷ ॥ २९ ॥ माक्षिकं⁸ कर्षमेकं तु सर्व्वमेकत्र कारयेत्⁹ । अन्धमूषागतं ध्मातं खोटो¹⁰ भवति तत्क्षणात् ॥ ३० ॥ तं खोटं सूक्ष्मचूर्णन्तु चणकाम्लेन¹¹ मर्दयेत् । आरण्य¹²गोमयेनैव पुटान्¹³ दद्याच्चतुर्दश ॥ ३१ ॥ इन्द्रगोपकसंकाशं जायते नात्र संशयः ॥ ३२ ॥ तच्चूर्णं मधुना युक्तं शुद्धतारं तु रञ्जयेत् । (१) D reads ततः संख्याक्रमेण. (२) तदासौ खेचरगो रसः, a variant in B. सूदासङ्गो खेचरो रसः, a variant in M, which is incorrect. (३) M reads क्षारसंख्यानि, which is incorrect. (४) After this hemistich we find in B अतः परं प्रवक्ष्यामि शृणु कापालिरंधनं ; in D अतः पर कजापालनी ; in K अतः परं कपालिनि. (५) D has शुल्यपवकपौकं तु, which is incor- rect. K has शुल्यपत्रं पलैकं तु. (६) B reads पलैकं. (७) कर्षैकं रसकज्जलीं, a variant in B. कर्षैकं रसकज्जलं, a variant in D. कर्षैका रस- कज्जली, a variant in M. (८) B reads माचीकं. (९) M reads मर्दयेत्. (१०) M reads खोट्टी. (११) B and K read दद्युम्नाम्लेन. M reads विङ्गाम्लेन. (१२) D reads चरण्य. (१३) B, K and M read पुटं.