रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 438, कुल 558 में से
संदर्भ में पढ़ेंअष्टादशः पटलः । ४१५ तेन बद्धास्तु ये देहास्ते देहा वज्ररूपिणः ॥ ८७ ॥ तिलमात्रं रसं¹ देवि ब्रह्मायुर्दश² जीवति । यवमात्रं रसं देवि विष्णुकोटिं स जीवति³ ॥ ८८ ॥ गुञ्जामात्रं तु⁴ देवेशि महाकल्पायुषो भवेत् । माषमात्रं वरारोहे मम तुल्यगुणो भवेत् ॥ ८९ ॥ मन्त्रहीनेन⁵ सुभगे न स गम्यो⁶ भविष्यति । न सिद्धिसाधनं⁷ तस्य जन्मकोटिशतैरपि ॥ १०० ॥ मूढ़चित्तो भ्रमत्येष कुलशासनवर्जितः⁸ ॥ १०१ ॥ तस्य विघ्नं⁹सहस्राणि कुर्व्वते¹⁰ देवदानवाः । देव्यश्चाकाशगामिन्यो भूचर्य्यश्च¹¹ सुरेश्वरि ॥ १०२ ॥ स्वप्ने तं भक्षयित्वा तु¹² रेतोरक्तं हरन्ति ताः¹³ । (1) B and D read तिलमात्ररसो. [Here भक्षयित्वा is to be understood.] (2) D reads ईश, which is incorrect. (3) This hemistich is not found in B and D. (4) B reads गुञ्जामात्रेण. (5) B reads मन्त्रहीने. (6) B reads मग्न्यवाजा, which is unintelligible. K reads गाम्यनाथ. (7) D reads न सिद्धिः साधनं. (8) मूढ़चित्ता भ्रमन्त्येषा, a partly incorrect variant in D. मूढ़ार्चिता भ्रमन्त्येषु, an incorrect variant in K. (9) D and K read विघ्ना, which is incorrect. (10) D and K read कुर्व्वति, which is inc. (11) D reads भूवर्गश्च, which is not correct. (12) स्वप्ने ते च भक्षयित्वा, a variant in B. सत्वं भक्षयित्वा तु, an incomplete charana in D. स्वप्ने तोयं शयित्वा तु, 'a variant in K. (13) B has रसोरेतं हरति ये, an incorrect variant. D has रेतोरक्तमुदरि प्रिये, K has रसो रक्तहरः प्रिये. Both are incorrect.