रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 443, कुल 558 में से
संदर्भ में पढ़ें४२० रसार्णवे नारङ्गं काञ्चनारञ्च¹ शोभाञ्जनमपि त्यजेत् ॥ १२६ क्षुधार्त्तो नैव तिष्ठेत अजीर्णं नैव² कारयेत् । न वादजल्पमं³ कुर्य्यात् दिवास्वापं न कारयेत्⁴ ॥ १२७ । नैवेद्यं नैव भुञ्जीत कर्पूरं वर्ज्जयेत् सदा । कुङ्कुमालेपनं वर्ज्ज्यं वर्ज्जयेन्नटनं क्षितौ ॥ १२८ ॥ नाग्निं स्पृशेत्सु⁵ पादेन न गा वा⁶ ब्राह्मणांश्च । न हन्यात्तु कुमारीं च वातुलानपि⁷ वर्ज्जयेत्⁸ ॥ १२९ ॥ दिवारात्रं जपेन्मन्त्रं ज्ञातव्यं च दिने दिने ॥ १३० ॥ हितश्च मुद्गा⁹ दुग्धान्नं शाल्यन्नं च समाहितम्¹⁰ । शाकं पौनर्नवं¹¹ देवि मेचनाटं च वास्तुकम् । सैन्धवं नागरं मुस्तां पद्मामूलानि भक्षयेत् ॥ १३१ ॥ उद्धिन्नचुचुका¹² श्यामा सुरूपा सुभगा शुभा । (1) B reads विभारंग. (2) K reads न च. (3) B reads वादजल्पं, which renders the charana incomplete. (4) दिवाचारी पर्यटेत्, a variant in B. (5) D reads प्रशेत, which is grammat- cally incorrect. (6) B, D and K read न गावो, which is gram- matically incorrect. (7) B reads मातुलानीं. D reads मातुलान which is incorrect. (8) After this śloka we find in B the follow- ing hemistich कुथ्यात्तैनैव तिष्ठेत चत्रौषं न च कारयेत्, which we have rejected the first charana being absurd, and the second being a repitition. (9) K wants मुद्गा. (10) B, D and K read समाहितः, which is not accurate ; समाहितं here means विशोधित and qualifies शाल्यन्नं. (11) D reads पुमनार्वं. K reads शाकं च पुनः, an incomplete charana. • (12) D reads erroneously उद्धत बुकका.