रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 449, कुल 558 में से
संदर्भ में पढ़ें४२६ रसार्णवे द्वात्रिंशांशकवेधी तु¹ वर्षाद्देहं तु वेधयेत्² ॥ १६४ ॥ कुञ्चिताग्रास्तु यत्केशा या श्यामा³ पद्मलोचना । विस्तीर्णं जघनं यस्याः⁴ सङ्कीर्णं हृदयं भवेत् ॥ १६५ ॥ कृष्णपद्मे भवेद्यस्या युवत्याः पुष्पदर्शनम्⁵ । कामिनी सा समाख्याता उत्तमा च रसायने ॥ १६६ ॥ आलिङ्गने स्मरने च⁶ मैथुनालापयोरपि⁷ । सर्व्वरोगविनिर्मुक्तो वलीपलितवर्ज्जितः ॥ १६७ ॥ नासौ छिद्येत शस्त्रैश्च पावकेन न दह्यते⁸ । वायुवेगो महातेजाः कामदेव इवापरः ॥ १६८ ॥ इच्छया जायते दृश्यो ह्यदृश्यश्चैव⁹ जायते । तस्य¹⁰ संसर्गमात्रेण सर्व्वलोहानि काञ्चनम् ॥ १६९ ॥ तस्मिन्नेकार्णवे घोरे नष्टस्थावरजङ्गमे¹¹ । देवा यत्र विलीयन्ते¹² सिद्धस्तत्रैव लीयते¹³ ॥ १७० ॥ (1) द्वात्रिंशत् कोटिवेधी च, a variant in D. (2) वर्षाद्वा देहं वेधयेत्, a variant in D. (3) D reads श्यामा या. K wants this hemistich and the next one. (4) B reads विस्तीर्णं जघनं तस्याः, which is not accurate. (5) D reads पुष्पकर्मणि, which is incorrect. (6) आलिङ्गेन स्मरेनेन, a variant in B. आलिङ्गेन स्मरने च, a variant in K. (7) D reads erroneously मैथुनाद्यं ययोरपि. (8) पाकेन च छिद्यते, an incorrect variant in D. (9) संदृश्यश्चैव, a reading in D and K, which is incorrect. (10) D reads erroneously तस्याः. (11) नष्टे स्थावरजङ्गमे, a variant in D. (12) K reads विलिप्यते. (13) सिद्धि- स्तत्रैव जायते, a variant in D.