रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 48, कुल 558 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the Sanskrit text and footnotes in Markdown format:
२४ रसार्णवे अभिषिच्य¹ विधानेन कुम्भतोयेन मन्त्रवित् ॥ ८१ ॥ विद्यामुपदिशेद्देवि पाठयेद्रससाधकम्² । कुमारोयोगिनोयोगि³साधकांश्च यथोचितैः⁴ ॥ ८२ ॥ तर्पयेदन्नपानैश्च⁵ जागरं तत्र कारयेत् । एवंविहितदीक्षस्तु⁶ साधकः सुरनायिके ॥ ८३ ॥ महाभूतमयीं तत्र⁷ वर्णपञ्चकसंयुताम्⁸ । पञ्चबीजात्मिकां⁹ विद्यां प्राणायामात्मसूत्रके¹⁰ ॥ ८४ ॥ मुद्रां रसाङ्कुशीं बध्वा लक्षमेकं जपेत्प्रिये । तस्य सिध्यति देवेशि निर्विघ्नं रसभैरवः ॥ ८५ ॥ प्रणवादि नमोऽन्तस्तु तर्पणान्ते जपः परः¹¹ । अहिंसा चन्दनं¹² सत्यं पुष्पमस्तेयधूपनम्¹³ ॥ ८६ ॥ ब्रह्मचर्यं महादीपम