रसेन्द्रसारसंग्रह (गोपालकृष्ण - पं. रामप्रसाद वैद्य सविस्तार सान्वय हिन्दी टीका सहित)
Rasendra Sara Sangraha of Gopalakrishna with Commentary
गोपालकृष्ण भट्ट (टीकाकार: पं. रामप्रसाद वैद्य) द्वारा
पृष्ठ 562, कुल 584 में से
संदर्भ में पढ़ें( ५३६ ) रसेन्द्रसारसंग्रह । द्वितोलं रजतञ्चैव वंगभस्म द्विकार्षिकम् । सुवर्णं तोलकञ्चैव ताम्रं कांस्यञ्च तत्समम् ॥ ५१ ॥ जातीफलञ्चेन्द्रपुष्पमेलाभृङ्गञ्च जीरकम् । कर्पूरं वनितामुस्तं कर्षं कर्षं पृथक् पृथक् ॥ ५२ ॥ सर्वं खल्लतले क्षिप्त्वा कन्यारसविमर्दितम् । भावयित्वा वरातोयैः केवुकानां रसेन च ॥ ५३ ॥ एरण्डपत्रैरावेष्ट्य धान्ये रात्रिदिनोषितम् । उद्धृत्य मर्दयित्वा तु वटिकां चणसम्मिताम् ॥ ५४ ॥ खादेच्च पर्णखण्डेन संयुक्तां व्याधिनाशिनीम् । सर्वव्याधिविनाशाय काशीनाथेन भाषितः ॥ ५५ ॥ पूर्णचन्द्ररसो नाम सर्वरोगेषु योजयेत् । बल्यो रसायनो वृष्यो वाजीकरण उत्तमः ॥ ५६ ॥ अयमष्ठीलिकां हन्ति कासश्वासमरोचकम् । आमशूलं कटीशूलं हृच्छूलं पित्तशूलकम् ॥ ५७ ॥ अग्निमान्द्यमजीर्णञ्च ग्रहणीं चिरजामपि । आमवाताम्लपित्तं च भगन्दरमपि द्रुतम् ॥ ५८ ॥ कामलां पाण्डुरोगञ्च प्रमेहं वातशोणितम् । नातः परतरः श्रेष्ठो विद्यते वाजिकर्मणि ॥ ५९ ॥ शुद्ध पारा २ कर्ष, गंधक २ कर्ष, लोहाभस्म ४ तोले, अभ्रकभस्म ४ तोले, चांदी २ तोले, वंग २ कर्ष, सोना १ तोला, तांबा १ तोला, कांसा एक तोला इन सबकी भस्म; जायफल, लौंग, इलायची,भांगरा, जीरा, कपूर, फूलप्रियंगु और नागरमोथा यह प्रत्येक औषधि एक एक कर्ष परिमाण लेवे । इन सब औषधियोंको एकत्र खरल करके