ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 12, कुल 91 में से
संदर्भ में पढ़ेंप्रथमः सर्गः ९ जलकाङ्क्षिणो दन्तिनो गजाः केसरिणोऽपि सिंहादपि न बिभ्यति भयं न प्राप्नुवन्तीत्यर्थः ॥ हुताग्निकल्पैः सवितुर्गभस्तिभिः कलापिनः क्लान्तशरीरचेतसः । न भोगिनं घ्नन्ति समीपवर्तिनं कलापचक्रेषु निवेशिताननम् ॥ १६ ॥ हुताग्निकल्पैरिति ॥ सवितुः सूर्यस्य हुताग्निकल्पैर्हुत- श्चासावग्निश्च तत्कल्पैस्तत्सदृशैः । तद्वदत्यन्तप्रचण्डैरिति यावत् । गभस्तिभिरंशुभिः क्लान्तं म्लानं शरीरं वपुश्चेतश्च येषां ते तथोक्ताः कलापिनो मयूराः कलापचक्रेषु बर्हमण्ड- लेषु निवेशितं प्रवेशितमाननं मुखं येन तत्तथोक्तं समीपव- र्तिनं भोगिनं सर्पं न घ्नन्ति न मारयन्तीत्यर्थः ॥ ³सभद्रमुस्तं ⁴परिशुष्ककर्दमं सरः खनन्नायतपोतृ⁵मण्डलैः । ६रवेर्मयूखैरभितापितो भृशं वराहयूथो विशतीव भूत लम् ॥ १७ ॥ सभद्रेति ॥ भद्रमुस्तेन 'भद्रमोथा' इति प्रसिद्धेन सहितं परिशुष्कः कर्दमः पङ्को यस्मिंस्तत्तथोक्तं सरः सरो- वरमायतानि दीर्घाणि यानि पोतृमण्डलानि तैः कृत्वा ख- नन् । रवेः सूर्यस्य मयूखैः किरणैर्भृशमत्यन्तमभितापितः संतापितो वराहयूथः सूकरसमूहः । 'वराहः सूकरो घृष्टिः' इत्यमरः । भूतलं भूगर्भं विशतीव प्रविशतीवेत्युत्प्रेक्षा ॥ १. 'मरीचिभिः.' २. 'चेतनाः.' ३. 'सुभद्रमुस्तम्.' ४. 'परिपण्डू.' ५. 'पोत्र.' ६. 'प्रदीप्तभासा रविणाभितापितः.' २