ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 17, कुल 91 में से
संदर्भ में पढ़ें१४ ऋतुसंहारे प्राप्ता वृद्धिर्येन तथोक्तः संस्तृणमध्ये प्रसरति । तथा प्रान्तलग्नः सन्मृगवर्गं हरिणसमूहं ग्लपयति व्याकुलं करोतीत्यर्थः ॥ बहुतर इव जातः शाल्मलीनां वनेषु स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् । १परिणतदलशाखानुत्पतन्प्रांशुवृक्षा- न्भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥२६॥ बहुतर इति ॥ अग्निः शाल्मलीनां वनेषु बहुतरः प्रचु- ररूपो जात इव स्फुरति । द्रुमाणां कोटरेषु शाखागह्वरेषु कनकगौरः काञ्चनगौरः स्फुरति । पवनेन वायुना धूतः कम्पितः सन्नत एव परिणताः परिपक्वा दलानि पर्णानि शाखाश्च येषां तांस्तथोक्तान्प्रांशुवृक्षानुन्नतद्रुमानुत्पतन्सन् । सर्वतः समन्ततो वनान्ते भ्रमति भ्रमणं करोतीत्यर्थः ॥ गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः सुहृद इव २समेता द्वन्द्वभावं विहाय । हुतवहपरिखेदादाशु निर्गत्य कक्षा- द्विपुलपुलिनदेशान्निम्नगां ३संविशन्ति ॥२७॥ गजेति ॥ वह्निना दावाग्निना संतप्तो देहः शरीरं येषां ते तथोक्ता अत एव द्वन्द्वभावं वैरभावं विहाय त्यक्त्वा सुहृदो मित्राणीव समेताः संगता गजगवयमृगेन्द्रा गजो हस्ती गवयो गोसदृशो मृगविशेषो मृगेन्द्रः सिंहश्च ते हुतवहस्य वह्नेः परिखेदात्संतापात् । यद्वा हुतवहस्य परिखेदो यत्र तस्मात्तथोक्तात् । कक्षाद्गिरिगह्वरादाशु झटिति निर्गत्य वि- १. ‘परिणवदलशाखादुत्पतत्याशु वृक्षात्.’ २. ‘समन्तात्.’ ३. आ- श्रयन्ते.’